SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ अथ केवलव्यतिरेक्यनुमान। केवलव्यतिरेकी त्वसत्सपा यत्र व्यतिरेकसहचारेण व्याप्तिग्रहः । ननु व्यतिरेकी नानुमानं व्याप्ति अथ केवलव्यतिरेक्यनुमानरहस्यं । 'असत्मपक्ष इति असन् स्वजन्यानुमित्यव्यवहितपूर्व खाधिकरणे असम्मपक्षः साध्यवत्त्वेन क्वापि मिश्चयोयस्येत्यर्थः, तथाच स्वसमानाधिकरणखजन्यानुमित्यव्यवहितपूर्ववर्तिनिश्चयाविषयमाध्यकत्वं केवलव्यतिरेक्यनुमानत्वमिति भावः। खं लक्ष्यत्वेनाभिमतं, अव्यवहितपूर्वत्वञ्च क्षणत्रयसाधारण(१) तेन व्याप्तिनिश्चयाव्यवहितपूर्व माध्यवत्त्वनिश्चयस्य क्वापि सत्त्वेऽपि न केवलव्यतिरेकित्वं । न च स्वाव्यवहितपूर्ववर्तीत्येवोच्यतां किं जन्यानुमित्यव्यवहितपूर्ववर्त्तित्वपर्यन्तेनेति वाच्य। वहिमान्धूमादित्यादावन्वयव्याप्तिग्रहजनकान्वयसहचारज्ञाने माध्यज्ञानत्वेन ज्ञानत्वेन वा अनुमितिकरणे अन्वय-व्यतिरेक्यनुमाना. नर्गतेऽतिव्याप्यापत्तेः तत्पूर्व माध्यनिश्चयस्य क्वापि विरहादिति (१) क्षणत्रयसाधारणास्थवहितपूर्खत्वञ्च खप्रागभावाधिकरणसमयप्रा. गभावाधिकरणसमयमागभावाधिकरणसमयप्रागभावानधिकरणत्वे सति खप्रागभावाधिकरणत्वरूपमिति ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy