________________
केवलान्यव्यनुमान।
पदुभयव्याप्तुरपस्थिती विनिगमकाभावेन उभयोरपि प्रयोजकन्वे व्यतिरेकोपासना व्यतिरेकश्च विपक्षतित्वशङ्कानिवृत्तिहारा व्यतिरेकव्याप्तावुपयुज्यते अत्र तु विपक्षाभावेन शङ्कव नोदेति।
इति श्रीमहङ्गशोपाध्यायविरचिते तत्त्वचिन्तामणै अनुमानाख्यद्वितीयखण्डे केवलान्वय्यनुमानसिद्धान्तः, समाप्तमिदं केवलान्वय्यनुमानं । भावः। 'यतिरेकविकलवत्' व्यतिरेकव्याप्तिविकलवत्, 'रूपान्तरेति पक्षधर्मताविकलमित्यर्थः, 'अन्यतरनिश्चयेनेति एकतरनिश्चयेनापौत्यर्थः, तथाचाचान्वयव्याप्तिज्ञानमेव हेतुरिति भावः। नन्वेवमत्र यथानुमितेरन्वयव्याप्तिज्ञानमात्रजन्यत्वं तथा यत्र युगपदुभयव्याप्युपस्थितिः तत्राप्यनुमितेरन्वयव्याप्तिज्ञानमात्रजन्यत्वमस्वित्यत आह, 'युगपदिति, ‘प्रयोजकत्व इति हतीयार्थ सप्तमी, 'यतिरेकोपासनेति अनुमितेर्व्यतिरेकव्याप्तिज्ञानजन्यत्वमित्यर्थः। ननु तथापि केवलान्वयिनि विपक्षासत्त्वज्ञानं विना कथं व्याप्तिग्रहस्तस्य तद्धेतत्वादित्यत आह, 'व्यतिरेकश्चेनि अर्थस्तु पूर्ववदित्याहुः ।
इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्यद्वितीयखण्डरहस्ये केवलान्वय्यनुमानसिद्धान्तरहस्यं, समातमिदं केवलान्वय्यनुमानरहस्य(१) । (१) इति महामहोपाध्यायत्रीमथुरानाथ-तर्कवागीशभट्टाचार्य
केवलान्चयिरहस्यं रमणीयमिति ग० ।