SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ५८० तत्वचिन्तामणौ भावप्रतियोगौति भ्राम्यतः सन्देह इत्यन्ये। नन्वेकरूपविकलमिदं कथं गमकं तत्त्वे वा व्यतिरेकविकलवत् रूपान्तरविकलमपि गमकं स्यादिति चेत्।न। अन्वयव्यतिरेकव्यात्योरन्यतरनिश्चयेनानुमित्यनुभवात् युगतयोर्याप्तियहे अन्वयव्याप्तियह इति यावत्, 'अब तु' केवलाम्वयिनि तु, व्यतिरेकव्याप्ताविति यथाश्रुतन्तु न सङ्गच्छते व्यतिरेकव्याप्तियह प्रत्येव तस्य विपक्षवृत्तित्वशानिवृत्तिमात्रद्वारा उपयोगितया केवलावयिनि तन्नित्त्यसम्भवेऽपि तस्यान्वयव्याप्तिग्रहोपयोगित्वे बाधकाभावात्। न च 'व्यतिरेकव्याप्तावित्यस्य व्यतिरेकव्याप्तिग्रह एवेत्यर्थः इति वाच्यम्। अन्वयव्याप्तिग्रहं प्रत्यपि तादृशशङ्कानिवृत्तिद्वारोपयोगित्वस्य सर्वसिद्भुतया अवधारणसङ्गतेः 'अत्र तु विपक्षाभावेन शव नोदेतीत्यभिधानस्यामङ्गतत्वापत्तेश्च अत्र तु व्यतिरेकव्याप्तिज्ञानमेव नेत्येव वकुमुचितत्वादिति ध्येयम्। केचित्तु विपक्षय्यावृत्तत्वग्रहस्य व्यातिरेकव्याप्तिग्रहद्वारा सर्वत्रानुमितावावश्यकत्वं अन्वयव्याप्तियहानुकूलतथा वा नाद्य इत्याह, 'अन्षयेति, 'अन्यतरनिश्चयेनेति एकतरनिश्चयेनापौत्यर्थः । ननु तर्हि विपक्षव्यावृत्तत्वग्रहः क्वचिदपि नापेक्षितः स्यात् इत्यत श्राह, 'युगपदिति, 'प्रयोजकत्वे' प्रयोजकत्वस्थले, 'व्यतिरेकोपासनेति विपक्षवृत्तित्वशानिवृत्तिद्वारा विपक्षव्यावृत्तत्वग्रहापेक्षेत्यर्थः । न द्वितीयइत्याह, 'व्यतिरेकञ्चेति अर्थस्तु पूर्ववदिति व्याचक्रुः । उपाध्यायानुयायिनस्तु ‘एकरूपेति व्यतिरेकच्याप्तिविकलमित्यर्थः । अत्रय-व्यतिरेकिणि उभयव्याप्तिज्ञानस्यैव गमकत्वदर्शनादिति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy