________________
५७६
तत्त्वचिन्तामणे
मतुपोविधानादिति चेत् । न । विशेषण-विशेष्यभावभेदेनार्थभेदात्। मैवं। य एव हि संशयः पक्षे साध्यसिद्धिविरोधी स एवानुमानाङ्गमावश्यकत्वात् लाघ
न्तार्थं, प्रमाव्यक्तयो यथा पुरुषभेदेन विभिन्नास्तथा विषयखरूपस्य तविषयत्वस्यापि विषयभेदेन विभिन्नत्वादित्यर्थः, तथाच चालनौन्यायेन मर्वासामेव प्रमाविषयत्वव्यक्तीनां तादृशात्यन्ताभावप्रतित्वात् न केवलान्वयित्वसम्भव इति भावः। 'प्रमात्वमेवेति, ‘परम्परासम्बन्धात्' खाश्रयविषयत्वरूपसम्बन्धात्। न च प्रमात्वमपि विषय-प्रकारभेदेन(२) अननुगतमिति वाच्यम्(२) । प्रकृते प्रमात्वपदेनानुभवत्वस्य विवक्षितत्वादिति भावः। ननु प्रमेयत्वस्य परम्परासम्बन्धेन प्रमावरूपत्वे प्रमेत्येव धीः स्थान तु प्रमेयमिति सम्बन्धस्य प्रकारत्वासम्भवादित्यत पाह, 'प्रमाजातीयेति प्रमात्वाश्रयविषयत्वमेवेत्यर्थः । न चैवं उक्तदोषतादवस्थ्य, लक्षणस्थानवच्छेदकघटनाया आवश्यकत्वेन प्रमाविषयत्वस्थाननुगतत्वेऽपि प्रमाविषयत्वत्वधर्मस्यानुगतस्य तादृशाभावप्रतियोगितानवच्छेदकत्वादेव लक्षणमङ्गतेरिति भावः । वस्तुतस्तु विषयताया ज्ञानखरूपत्वेन भगवतोऽस्मदादेोगिनां वा सर्वविषयकप्रमाव्यक्तस्तदि
(१) प्रमाल्यसम्बन्धादिति ख ग घ..। (२) विशेष्य-प्रकारभेदेनेत्यर्थः । (३) तहहिशेष्यक-तत्यकारक ज्ञानत्वरूपप्रमात्वस्य विषयविशेषनिय
वितत्वादननुगतत्वमिति भावः ।