________________
केवलान्वय्यनुमान।
यका,प्रमेयत्वपक्षके चास्तित्वसाध्यस्यान्वय-व्यतिरेकित्वं तथाच घटः प्रमेया न वेति संशया मृग्यते स च 'नाल्येव। अथ पक्षः साध्यवान वा पक्षे साध्यमस्ति न वेति संशयौ समानविषयकावेव तदस्यास्यस्मिन्निति
पगमे तु येन केनचित्सम्बन्धेन इत्यपहाय तत्सम्बन्धेनेति वक्तव्यं(९) । नचैवमपि प्राश्रयनाशजन्यगुणादिनाशात्यन्ताभावेऽव्याप्तिस्तदवस्थैवेति वाच्यं । प्रागभावस्यात्यन्ताभावविरोधित्वे मानाभावात् प्रतियोगिसमवायिदेशेऽपि तादृशनाशात्यन्ताभावोवर्त्तत एवेत्यभिप्रायादिति न कोपि दोषः।
मोन्दडोपाध्यायास्तु(२) अन्योन्याभावप्रतियोगितानवच्छेदकधर्मवत्त्वं केवलान्वयित्वं अन्योन्याभावोव्याप्यवृत्तिरेवेति नाव्याप्यवृत्त्यत्यन्ताभावेऽव्याप्तिः धर्मत्वोपादानाबाकाशेऽतिव्याप्तिरित्याः । तदसत्। विषयतया ज्ञानस्य केवलान्वयित्वानुपपत्तेः समवायेनान्योन्याभावस्य प्रतियोगितावच्छेदकत्वात् केवलान्चयितावच्छेदकसम्बन्धेन अन्योन्याभावप्रतियोगितानवच्छेदकत्वोक्तावपि तादात्म्येन मेयसामान्यस्य केवखान्वयित्वानुपपत्तिः चालनौन्यायेन सर्वेषामेव मेयानां अन्योन्याभावप्रतियोगितावच्छेदकवादित्यास्तां विस्तरः ।
यथाश्रुनाभिप्रायेणशकते, 'न चेति, 'प्रमाया इति दृष्टा
(१) मन्तव्यमिति क.। (२) उपाध्यायास्विति ख ग घ..।