________________
५७०
सावचिन्तामणौ
यविषयत्वं वा। तथापि केवलान्वयिनि सन्देहाभावात् कथमनुमितिः, प्रमेयत्वमच वर्तते न वेति संशयश्च न प्रमेयपक्षकः किन्तु प्रमेयत्वपक्षको भिन्नविष
चालनौन्यायेन सर्वस्यैव प्रमेयस्य तादाम्यसम्बन्धन प्रतियोग्यनधिकरणे वर्तमानस्याभावस्य प्रतियोगित्वादिति वाच्यम् । तादृशाभावस्य प्रतियोगितानवच्छेदको यो धर्मस्तद्वत्त्वं तेन रूपेण तत्सम्बन्धेन केवलान्वयित्वमिति विवक्षणान्, इत्थञ्च प्रतियोग्यनधिकरणत्वं प्रतियोगितावच्छेकावच्छिन्नानधिकरणत्वमेव वक्तव्यं न तु प्रतियोग्यमधिकरणत्वमा तथा मति द्रव्यभेद-गुणभेदयोरन्यतरत्वरूपेण केवलान्वयित्ववदुभयत्वरूपेणापि केवलान्वयित्वापत्तेः। नचैवं विरुद्धयोरपि द्वित्वेन केवलान्वयित्वापत्तिः तदवच्छिन्नाधिकरणाप्रसिद्ध्या तदवच्छिन्नाभावस्य प्रतियोगितावच्छेदकावच्छिन्नानधिकरणवृत्तिमत्त्वस्थासम्भवात् समवायादिना प्रमेयत्वादेर्गगनादेच केवलान्वयिवापत्तिः समवायावच्छित्रप्रमेयत्वाभावादेस्तादृशगगनाभावादेव समवायसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नानधिकरणाप्रसिद्धेरिति वाच्यम्। तत्सम्बन्धेन तद्धविच्छिन्नवति येन केनचित्सम्बन्धेन सम्बन्धित्वे मतौत्यनेनापि विशेषणात्, इत्थञ्च समवायादिसम्बन्धन विरु(घटत्व-पटलोभयत्वावच्छिन्नवतस्तत्सम्बन्धन प्रमेयत्वत्व-गगनबावच्छिअवतचाप्रसिद्धत्वान्नातिव्याप्तिः विशेषणताविशेषेण वर्तमानस्य घटत्वपटवाद्यभावस्येव विशेषणताविशेषेणवर्त्तमानस्यापि गगनादेः विशेषएताविशेषसम्बन्धन प्रमेयत्वादिरूपेण केवलान्वयित्वमिष्टमेव, तदनभ्यु