________________
केवलान्वय्यनुमान।
પૂછ્યું केवलान्वयि रत्तिमतोऽत्यन्ताभावस्याप्रतियोगित्वात् । न च प्रमेयत्वं प्रमाविषयत्वं तच्च न केवलान्वयि प्रमायाविषयत्वस्य चाननुगमादिति वाच्या प्रमात्वमेव हि परम्परासम्बन्धात् घटादौ प्रमेयत्वमनुगतं प्रमाजाती
दत्यन्ताभावप्रतियोगिलात् अव्याप्यवृत्त्यत्यन्ताभावेऽव्याप्तेश्च । न च वृत्तिमत्पदेन निरवच्छिन्नवृत्तिमत्त्वं विवक्षितमतोनाव्याप्यवृत्त्यत्यन्ताभावेऽव्याप्तिः न वाकाशाभावादौ संयोगादियधिकरणसम्बन्धावछिन्नद्रव्यत्वात्यन्ताभावादौ चाव्याप्तिः उनयुक्त्या तदत्यन्ताभावस्यैवासिद्धेरिति वाच्यम्। तथापि कालिकसम्बन्धावच्छिन्त्रप्रतियोगिताके गोत्वादेः कालिकाव्याप्यवृत्तेरभावेऽव्याप्तेः गोत्वादेः समवायसम्बन्धेनानवच्छिन्नवृत्तिमत्त्वादिति चेत् । न। प्रतियोग्यनधिकरणे वृत्तिमत्त्वस्य वृत्तिमत्पदेन विवक्षितत्वात् आकाशात्यन्ताभावाभावादः प्रतियोग्यनधिकरणस्यैवाप्रसिद्धत्वाचाव्याप्तिः। न चैवं समवायसम्बन्धेनापि ज्ञानादः कालिकसम्बन्धेनापि गगनाभावादेव केवलान्वयिवापत्तिः समवायसम्बन्धावच्छिन्त्रज्ञानाद्यभावस्य कालिकसम्बन्धावच्छिन्नगगनाभावाभावस्य च प्रतियोग्यनधिकरणाप्रमिद्धेः(१) इति वाच्यम् । यत्सम्बन्धेन प्रतियोग्यनधिकरणे वृत्तिमतोऽभावस्थाप्रतियोगित्वं तेन सम्बन्धेन केवलान्वयित्वमिति विवक्षितत्वात् । न च तथापि तादात्म्यसम्बन्धन प्रमेयादेः केवलान्वयित्वानुपपत्तिः (१) तथाच विषयतासम्बन्धेन ज्ञानस्य विशेषणताविशेषेण गगनामावस्य
च सर्वत्र सत्त्वमिति भावः।