________________
अथ केवलान्वय्यनुमानसिद्धान्तः ।
उच्यते। वृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्ययित्वं, आकाशात्यन्ताभावो यद्यपि प्रतियोगिरूपात्यन्ताभावप्रतियोगी तथापि स न वृत्तिमानित्याकाशात्यन्ताभाव एव केवलान्वयौ, तथा प्रमेयत्वाभिधेयत्वादि
अथ केवलान्वय्यनुमानसिद्धान्तरहस्यं । 'वृत्तिमदिति वृत्तिमान् योऽत्यन्ताभावस्तदप्रतियोगित्वमित्यर्थः, श्राकाशात्यन्ताभावेऽव्याप्तिमुद्धरति, 'आकाशात्यन्ताभावएवेति आकाशात्यन्ताभावोऽपौत्यर्थः, श्राकाशात्यन्ताभावः केवलाम्वय्येवेति व्युत्क्रमेण वा अन्वयः। प्रमेयत्वादी लक्षणं सङ्गमयति 'तथेत्यादिना। नन्विदानौं अाकाशमिह दिश्याकाशमिति प्रतीतिबलादाकाशस्थापि काल-दिनिरूपितविशेषणतया वृत्तिमत्त्वात्
आकाशात्यन्ताभावे तथाप्यव्याप्तिः। न च वृत्तिः संयोगः समवायोवा विवक्षित इति वाच्यम् । घटादेरपि केवलान्चयित्वापत्तेः । न च काल-दिनिरूपितविशेषणतातिरिक्तसम्बन्धेन वृत्तिमत्त्वं विवचितमिति वाच्यम् । तथापि संयोगादिव्यधिकरणसम्बन्धावछिन्नद्रव्यत्वात्यन्ताभावादावव्याप्तेस्तस्य प्रतियोगिरूपतादृशत्तिम