________________
-
केवलान्वय्यनुमान।
५६
ज्ञानमभावज्ञानप्रतिबन्धकं तदेवाभावाभाव इति नियमे च मानाभावात्। न चैवं संयोगादिव्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकद्रव्यत्वाभावादौनां खप्रतियोगिनिरूपितखप्रतियोगितावच्छेदकसम्बधाप्रमिया तदभावविलयप्रसङ्गति वाच्यम् । तादृशद्रव्यत्वाभावादौनामभाव एव मानाभावात्, यस्य हि प्रभावाभावः प्रामाणिकस्तदौयाभावस्यैव प्रतियोगितावच्छेदकसम्बन्धरूपत्वकल्पनादित्याः । नदसत् । खत्वघटितत्वेनार्थानुगमस्थासम्भवात् शब्दानुगमस्थाकिञ्चिकरत्वात्। किञ्चाभावाभावस्य स्वप्रतियोगिनिरूपितखप्रतियोगितावच्छेदकसम्बन्धरूपत्वे समवायसम्बन्धावच्छिन्नरूपाभावाभावस्य रूपनिरूपितसमवायरूपतया समवायावच्छिन्नरूपात्यन्ताभावाभाववान वायुरित्यपि प्रत्ययः स्यात् रूपनिरूपितसमवायस्य समवायानतिरिकतया वाय्वादावपि तत्सत्त्वात्, एवं संयोगसम्बन्धावच्छिन्नघटाधभावाभावस्य घटसंयोगादिरूपतया तादृशघटाभावाभाववान् घटइत्यपि प्रत्ययः स्यात् स्वसंयोगस्य खस्मिन्नपि मत्त्वात् । न च खप्रतियोगिनिरूपितत्वविशिष्टखप्रतियोगितावच्छेदकसम्बन्धोऽभावाभाव इति वाच्यम् । विशिष्ट स्थानतिरिक्रतया तद्दोषतादवस्यात्। न च यथा रूपनिरूपितसमवायस्थ समवायानतिरिक्तत्वेऽपि रूपनिरूपितत्वविशिष्टसमवायत्वावच्छिनतदाधारत्वस्य वाय्वादावभावा
पनिरूपितसमवायवान् वायुरिति न प्रत्ययः यथा वा विशिष्टमत्त्वाभावाभावस्य विशिष्टमत्त्वस्य सत्त्वानतिरिकत्वेऽपि विशिष्ट सत्त्वाभावाभावत्वावच्छिन्नतदाधारत्वस्य गुणदावभावात् विशिष्टमत्त्वाभावाभाववान् गुण इति न प्रत्ययः तथा समवायसम्बन्धावच्छिन