________________
v(F
चिन्ताम
भावाभावत्वस्य तत्समनियतपरिमाणव्यक्तीनां दुवरत्वात् । न च प्रतियोगितावच्छेदकं विना धर्मान्तरस्य ग्रहे श्रन्योन्याभावाभावव्यवहाराभावान्न तस्य तदभावत्वमिति वाच्यम् । धर्मान्तरस्यान्योन्याभावाभावत्वेन ग्रहदशायां तदग्रहेऽप्यन्योन्याभावाभावव्यवहारात् प्रतियोगितावच्छेदकस्यान्योन्याभावाभावत्वमविदुषः प्रतियोगितावच्छेदकवत्त्वग्रहेऽप्यन्योन्याभावाभावव्यवहाराभावात् तस्माद्यत्र प्रतियोगितावच्छेदकधर्मेलघुः स एव तचान्योन्याभावाभाव:, यत्र प्रतियोगितावच्छेदकापेचया धर्मान्तरं लघु तत्र तदेव तदभावाभावः, यत्र च प्रतियोगितावच्छेदकधर्मोधर्मान्तरञ्च लघु तत्र उभयमेव तथेति विषयविभागः, मूले 'प्रतियोगिवृत्तिरसाधारणधर्म इत्यस्य प्रतियोगिवृत्तिलघुधर्म इत्यर्थं इति प्राहुः ।
मिश्रास्तु स्वप्रतियोगिनिरूपितस्वप्रतियोगितावच्छेदकसम्बन्ध एव सर्वत्राभावाभाव:, स चान्योन्याभावस्य तादात्म्यं श्रत्यन्ताभावस्य संयोगादिः, यत्किञ्चित्संयोगवति संयोगसम्बन्धसामान्यावच्छिन्नघटाभावाभावप्रत्ययापत्तिवारणाय स्वप्रतियोगिनिरूपितत्वं सम्बन्धविशेषणं, प्रतियोगितावच्छेदकतानियामकसम्बन्धेन च तस्याभावविरोधितया न सम्बन्धान्तरेण प्रतियोगितावच्छेदकसम्बन्धवति श्रभावविलयप्रसङ्गः, श्रन्यथात्यन्ताभावाभावस्य प्रतियोगिरूपत्वेऽन्योन्याभावाभावस्य च प्रतियोगिवृत्त्य साधारणधर्मरूपत्वेऽनुगतानतिप्रसक्रोक्त्यसम्भवात् श्रभावाभावत्वप्रकारक ग्रहदशायां केवलप्रतियोगितावच्छेदकसम्बन्धज्ञानेऽप्यभावाभावव्यवहारात् तदग्रहदशायां तत्र प्रतियोग्यादिग्रहेऽप्यभावाभावव्यवहारविरहात्, स्वरूपेण यद्वत्ता