________________
केवणान्वय्यनुमान।
न्योन्याभावग्रहस्य घटान्योन्याभावात्यन्ताभावत्वप्रकारेण यहे घट-. त्वग्रहे च प्रतिबन्धकतया कम्बुगौवादिमानित्यादिग्रहे बाधकाभावात् । न च घटत्ववत्ताजानवत् कम्बुग्रीवादिमत्त्वादिग्रहस्थापि घटभेदग्रहप्रतिबन्धकलापत्तिः तस्य घटभेदाभावरूपत्वादिति वा. च्यम् । तदभावत्वप्रकारकज्ञानस्यैव तदत्ताज्ञानं प्रति प्रतिबन्धकत्वात् अन्यथातिप्रसङ्गात्(१) घटत्वादिज्ञानस्य तु खातन्त्र्येणैव प्रतिबन्धकत्वात् । न च तथापि कम्बुग्रौवादिमत्त्वग्रहस्य तदभाववत्त्वग्रहे प्रतिबन्धकत्वात् घटत्वावच्छिन्त्रप्रतियोगिताकभेदस्य च तथात्वात् तत्सत्त्वे कथं यह इति वाच्यम् । तस्य तदभावत्वप्रकारकग्रहं प्रत्येव प्रतिबन्धकत्वात् अयन्तु घटभेदत्वप्रकारक इति। न च स्वरूपतो यदत्ताज्ञानं यदभाववत्ताज्ञानप्रतिबन्धकं तदेवाभावाभावः, कम्बुयौवादिमवादिकञ्च न तथेति वाच्यम् । अप्रयोजकत्वात् । न च कम्बुगौवादिमत्त्वादीनां प्रतिव्यक्तिभिन्नानां अनन्तरूपादौनाञ्चान्योन्याभावाभावत्वकल्पनमपेक्ष्य लाघवात् प्रतियोगितावच्छेदकस्य घटत्वस्यैव तथालं कल्यते इति वाच्यम्। तथापि कम्बुग्रीवादिमत्त्वाद्यवच्छिन्नान्योन्याभावाभावत्वस्य घटत्वादौ दुर्वारत्वात् प्रतियोगितावच्छेदकापेक्षया घटत्वस्य लघुत्वात् । न च कम्बुग्रीवाद्यवच्छिन्नान्योन्याभाव एवाप्रसिद्ध इति वाच्यम्। तदनङ्गीकारेऽपि तदेकत्वाद्यवच्छिन्नान्योन्या
(१) तहत्तायहे तदभावत्वेन तदभावग्रहस्यैव प्रतिबन्धकत्वं इति नियमा
भावे प्रमेयत्वेन तदभावग्रहोऽपि तदत्ताग्रहे प्रतिबन्धकः स्यात् इत्येवातिप्रसङ्ग इति ।