________________
तत्वचिन्तामणौ
त्यन्ताभावः प्रतियोग्येव अन्योन्याभावात्यन्ताभावस्तु प्रतियोगित्तिरसाधारण धर्म इति ।
इति श्रीमहङ्गशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानास्यहितीयखण्डे केवलान्वय्यनुमानपूर्वपक्षः ।
त्यन्ताभावात्यन्नाभावो नास्तौति प्रतीत्यनुपपत्तेः(१) तादात्म्यातिरिकवृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वात्, किञ्च तादात्यसम्बन्धस्यान्योन्याभावाभावत्वावच्छिन्नघटनिष्ठघटवृत्तित्वनियामकले तादृप्रवृत्तितामादायैव तादात्म्यसम्बन्धेन घटो घटवृत्तिरिति घटत्वधर्मितावच्छेदककघटविशेष्यकप्रतीतेः घटे घटवृत्तिवाभस्य प्रमात्वापत्तेkीरत्वात्, अतएवाधिकरणस्वरूपाभाववादिमतमप्यपास्तं इत्येव तत्त्वं । 'अत्यन्ताभावात्यन्ताभाव इति तथाचात्यन्ताभावस्य प्रतियोगित्वमभावाभावत्वमिति भावः। प्रतियोगिवृत्तिरमाधारण इति प्रतियोगितावच्छेदकधर्म इत्यर्थः, इति साम्प्रदायिकाः ।
नव्यास्त प्रतियोगिवृत्त्यसाधारणधर्ममात्रमेवान्योन्याभावात्यन्ताभावः न तु नियमतः प्रतियोगितावच्छेदकमेव । न चैवं कम्बुग्रीवादिमत्त्वादीनां घटादिवृत्तिरूपादौनाञ्च अन्योन्याभावाभावत्वात् घटान्योन्याभावग्रहे तेषामपि ग्रहो न स्यादिति वाच्यम् । घटा
(९) तथाच घटात्यन्ताभावाभावस्य खाश्रयात्मकपरम्परासम्बन्धेन घटत्व
खरूपस्य तादृशपरम्परासम्बन्धेनाभाव एव घटात्यन्ताभावाभावाभावः
स चाप्रसिद्धः तादृशपरम्परारूपसत्यनियामकसम्बन्धावच्छिन्नप्रति• योगित्वे मानाभावादिति भावः ।