________________
तत्त्वचिन्तामणी
रूपाभावाभावत्वावछिनरूपसमवायाद्याधारत्वस्य वाय्वादावभावामोक्तप्रत्यय इति वाच्यम्। तथा मति सर्वेषामेवाभावानामभावस्य गगनाभावस्वरूपत्वसम्भवेनाननुगतप्रतियोगितावच्छेदकसम्बन्धरूपताभ्युपगमस्थान्याय्यत्वात् । अथ समवायावच्छिन्नरूपाधभावाभावस्य गगनाभावरूपत्वे तादृशरूपाभावाभावो विशेषणताविशेषेण वायुत्तिरित्यपि प्रत्ययः स्यात् न स्थाच्च तादृशरूपाभावाभावो न विशेपणताविशेषेण वायुवृत्तिरिति प्रत्ययः गुणाद्यन्यत्वविशिष्टमत्तायागुणादिवृत्तित्ववत् विशिष्टस्थानतिरिकतया तादृशरूपाभावाभावत्वविशिष्टस्यापि वाय्वादौ वृत्तः, एवं संयोगादिसम्बन्धावच्छिन्नघटाभावाधभावस्थापि गगनाभावखरूपत्वे तादृशघटाभावाभावो घटवृत्तिरित्यपि प्रत्ययः स्यात् न स्याच्च तादृशघटाभावाभावो न घटवृत्तिरिति प्रत्यय इति चेत्, तुल्यमिदमापत्तिदान,(१) प्रतियोगिनिरूपितप्रतियोगितावच्छेदकसम्बन्धरूपत्वेऽपि विशिष्टस्थानतिरिकतया समवायसम्बन्धावच्छिन्त्ररूपाभावाभावत्व-संयोगसम्बन्धावच्छिन्नघटाभावाभावत्वविशिष्टस्य रूपसमवाय-घटसंयोगादेवायु-घटादावपि वृत्तः। न च तवापि विशिष्टमत्ताभावाभावस्य विशिष्टमत्तारूपत्वे विशिष्टमताभावाभावो गुणवृत्तिरिति प्रत्ययः स्यात् न स्याञ्च विशिष्टमत्ताभावाभावो न गुणवृत्तिरिति प्रत्ययः विशिष्टस्यानतिरिकत्वादिति वाच्यम्। इष्टत्वात्। सर्वेषामेव विशिष्टाभावानां प्रभावस्य गगनाभावरूपत्वे विशिष्ट सत्ताभावाभावोजात्यादिवृत्तिरित्यादिप्रत्ययापत्तेः
(२) तुल्यमिदमापादनमिति ध।