________________
केवजान्वय्यनुमान।
आश्रयस्यैवाभावात् । नाप्याकाशान्ताभावः केवलाम्खयो, तस्यापि प्रतियोगिरूपात्यन्ताभावप्रतियोगि
सम्बन्धेनैव भूतलादिदेशवृत्तेः कालिकतयैव च समये वृत्तेरिति भावः । 'प्रतियोगिपागभाव इति तत्प्रतियोगिप्रागभाव इत्यर्थः । शङ्कने, 'तौं नि, 'नाशस्य' आश्रयनाशजन्यगुणदिनाशस्य, 'तत्र' प्रतियोगिसमवाधिदेशे, 'पूर्वमिति प्रतियोगिसमवायिदेशसत्त्वदशायामित्यर्थः, इदमापाततः प्रागभावस्थात्यन्ताभावविरोधित्वे मानाभावात् तादृशगुणादिनाशोत्पत्तिपूर्वमेव तदत्यन्ताभावस्य प्रतियोगिसमवायिदेशे सत्त्वात्, परमार्थतस्तु तदत्यन्ताभावस्य सर्वत्र वर्तमानत्वेऽपि आकाशात्यन्ताभाववत्प्रतियोगिरूपात्यन्ताभावप्रतियोगित्वाब केवलान्वयित्वसम्भव इत्येव तत्त्वं । 'प्रतियोगिरूपेति आकाशरूपेत्यर्थ:(९) । नन्वाकाशस्थाकाशात्यन्ताभावाभावले मानाभावः प्रमेयत्वं नास्तौति प्रतौतिवदाकाशात्यन्ताभावो नास्तौति प्रतीतेरसिद्धलात् आकाशात्यन्ताभावाभावस्यैवासिद्धेः। न चैवं घटादेरपि घटात्यन्ताभावाभावत्वे मानाभाव इति वाच्यम् । घटवति भूतले घटात्यन्ताभावो नास्तौति प्रतीतिबलाघटात्यन्ताभावाभावे प्रमाणमिद्धे तत्र लाघवाद्घटस्यैव तथात्वकल्पनात्। न च भूतलादावाकाशाधिकरणत्वं भ्राम्यतोभूतलादावाकाशात्यन्ताभावो नास्तौति प्रतीतेराकाशात्यन्ताभावाभावोऽपि प्रामाणिक इति वाच्यम् । तत्प्रतीतेरभावान्तरे प्रतियोगितासम्बन्धेन आकाशात्यन्ताभावावगाहित्वात् अन्यथा प्रमेयत्वे (१) 'प्रतियोगिरूपाभावेति अाकाशरूपाभावेत्यर्थ इति क ।