________________
५६२
तत्त्वचिन्तामणौ
भावो वर्तत। तर्हि नाशस्य तच वृत्तिः स्यादिति चेत् । न। पूर्व तच नाशप्रागभावस्यैव सत्त्वादुत्तरकाले
__ केचित्तु तत्र' तस्मिन् लक्षणे सतीत्यर्थः, इत्याहुः । तदसत्। अत्यन्ताभावाप्रतियोगिन एव केवलन्वयित्वादित्युत्तरग्रन्थस्य पुनरुक्तबापत्तेः ।
'अव्याप्यवृत्त्यत्यन्ताभावः' अव्याप्यत्तिसंयोगादेरत्यन्ताभावः, 'केवलान्वयौ' संयोगाभाववादिरूपेण केवलान्वयौ, स्यादिति शेषः, 'प्रतियोग्यवच्छिन्ने' प्रतियोग्यधिकरणे, 'अत्यन्ताभावाप्रतियोगिनइति, भवन्मत इत्यादिः, भवन्मते अत्यन्ताभावप्रतियोगितानवच्छेदकनद्धर्मवत एव तद्धर्मरूपेण केवलान्वयित्वादित्यर्थः। अव्याप्यन्तरमाशकते, 'नापौति 'वाथमित्यनेनान्वयः, 'आश्रयनाशजन्येति श्राश्रयनाशजन्यो यो गुणदिनाशस्तदत्यन्ताभाव इत्यर्थः, केवलान्वयौति शेषः, 'सर्वत्रेति, नाशस्य प्रतियोगिसमवाय्यादिदेशमात्रवृत्तित्वनियमात् तत्र च प्रतियोगिसमवायिदेशस्याभावादिति भावः । 'इति वाच्यमिति इति भवता वर्तुं शक्यमित्यर्थः। न चेह भूतले घटरूपं नष्टं तदानौं घटरूपं नष्टमित्यादिप्रतीतिबलात् प्रतियोगिसमवायिदेशवत् भूतलादिदे समये च ध्वंसस्य वर्तमानत्वात् कथमाश्रयमाशजन्यगुणादिनाशात्यन्नाभावस्य सर्वत्र वर्तमानत्वमिति वाच्यम् । दह घटे रूपं नष्टं इत्यादिप्रतीतिमाक्षिकप्रतियोगिसमवायिदेशमात्रवृत्तिदैभिकविशेषणताविशेषेण तदत्यन्ताभावस्योक्तत्वात् सच तेन सम्बन्धेन भूतखादिदेशे समये च न वर्तते ध्वंसस्यावच्छेदकता