________________
केवलान्वय्यनुमान।
तदत्यन्ताभावो वर्तते, तथाच नाशस्य प्रागभावो यच नाशप्रतियोगिसमानदेशे वर्तते तत्र कथं नाशात्यन्ता
योगिन एवान्योन्याभावप्रतियोगितावच्छेदकत्वनियमादिति भावः । तथाचात्यन्ताभावप्रतियोगित्वे एव धर्मत्वं व्यभिचारीति हृदयं । 'अत्यन्ताभावप्रतियोगित्व इति अत्यन्ताभावप्रतियोगित्वस्थात्यन्ताभावप्रतियोगिवे इत्यर्थः, 'यन्निष्ठात्यन्ताभावप्रयोगौति प्रथमान्तं, प्रत्यनाभावप्रतियोगित्वं यदधिकरणनिष्ठात्यन्ताभावप्रतियोगौति योजना, 'तदेव केवलान्वयौति तदधिकरणमेवान्योन्याभावप्रतियोगितावच्छेदकत्वरूपसाध्याभाववदित्यर्थः, अत्यन्ताभावप्रतियोगिन एवान्योन्याभावप्रतियोगितावच्छेदकत्वनियमादिति भावः । तथाच तदधिकरण एव धर्मत्वं माध्यव्यभिचारि अत्तावत्यन्ताभावप्रतियोगित्वाभावासम्भवेन तदधिकरणे वृत्तिमत्त्वरूपधर्मत्वस्यावश्याभ्युपेयत्वादिति हृदयं । 'न चेति, व्यावृत्तत्वं' अन्योन्याभावप्रतियोगितावच्छेदकलं, 'नानेति व्यक्तिभेदानानेत्यर्थः, तथाच चालनोन्यायेन निर्घटादिनिष्ठान्योन्याभावप्रतियोगितावच्छेदकौभूतघटादिनिष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वमेव तयोरिति न क्वापि व्यभिचार इति भावः । 'तयोरिति, अनुगतयोरिति शेषः। न च तयोर्कातिभेदादननुगतत्वे ऽप्यत्यन्ताभावप्रतियोगितात्वादिरूपविशेषणतावच्छेदकानुगमादनुगतप्रत्यय इति वाच्यम् । तावता स्फुटव्यभिचारविरहेऽप्यप्रयोजकत्वादिति भावः । लक्षणस्याव्याप्तिमाशते, 'तचेति केवशान्वयिषु मध्य इत्यर्थः ।