________________
५६.
तत्त्वचिन्तामणौ
शात्यन्ताभावः तस्य नाशस्य सर्वचात्यन्ताभावादिति वाय। यत्र हि प्रतियोगिमागभावो वर्तते तत्र न
अन्यथा सिद्धसाधनवारणय विशेषणताविशेषसम्बन्धावच्छिन्नव्यावृत्तवस्यैव साध्यतया तवैकल्यात् तेन सम्बन्धेन तत्र धर्मत्वरूपहेतोर्विरहाच्चासङ्गतिः स्थादिति(१)। 'यावृत्तत्वस्य' अन्योन्याभावप्रतियोगितावच्छेदकत्वरूपमाध्यस्य, 'अव्यावृत्तत्वे' अन्योन्याभावप्रतियोगितावच्छेदकत्वाखौकारे, 'व्यावृत्तत्वमेव' अन्योन्याभावप्रतियोगितावच्छेदकत्वरूपं साध्यमेव, 'केवलान्वयौति, अन्योन्याभावप्रतियोगितावच्छेदकत्वरूपसाध्याभाववदित्यर्थः, 'व्यावृत्तव इति अन्योन्याभावप्रतियोगितावच्छेदकत्वरूपस्य माध्यस्यान्योन्याभावप्रतियोगितावच्छेदकत्वरूपव्यावृत्तत्वखोकार इत्यर्थः, 'यत एवेति यदधिकरणनिष्ठान्योन्याभावप्रतियोगितावच्छेदकमन्योन्याभावप्रतियोगितावच्छेदकत्वमित्यर्थः, 'तदेव' तदधिकरणमेव, 'केवलान्वयौति अन्योन्याभावप्रतियोगितावच्छेदकत्वरूपसाध्याभाववदित्यर्थः, 'अनेकान्तिकत्वादिति अन्योन्याभावप्रतियोगितावच्छेदकत्वरूपे साध्ये तादृशमाध्यवभिन्नत्वेनाभिमते अधिकरणे वा अनेकान्तिकत्वादित्यर्थः । ननु अन्योन्याभावप्रतियोगितावच्छेदकत्वमाकाशाद्यवृत्तिनिष्ठान्योन्याभावप्रतियोगितावच्छेदकमतो न व्यभिचारः तत्र धर्मत्वाभावादित्यखरमात् स्थलान्तरे व्यभिचारमाह, ‘एवमिति, 'केवलान्वयौति अन्योन्याभावप्रतियोगितावच्छेदकत्वरूपसाध्याभाववदित्यर्थः, अत्यन्ताभावप्रति(१) धनवादितीत्यादिः स्यादित्यन्तः पाठः ग०, ए• पुस्तक हये नास्ति ।