________________
केवलान्वय्यनुमान।
योग्यवच्छिन्नेऽप्यत्यन्ताभावात् अत्यन्ताभावाप्रतियोगिनश्च केवलान्वयित्वात्। नाप्याश्रयनाशजन्यगुणना
स्यादिति शाब्दबोधः स्थादित्यर्थः, तथाच नालोकत्वमिति भावः । नन्वेतावता व्याघाते निरस्तेऽपि वस्तुपदाभिधेयत्वस्थ() विपक्षमते मानाभाव इत्यत श्राह, ‘एवञ्चेति उतक्रमेण व्याघाते निरस्ते च इत्यर्थः, अन्यथा व्याघातादेवानुमानं बाधितं स्यादिति भावः। 'कुत इति किञ्चिविष्ठान्योन्याभावप्रतियोगितावच्छेदकमित्यर्थः, अवच्छेदकत्वञ्च लघु-गुरुमाधारणं तेन कम्बुग्रीवादिमत्त्वादौ गुरुधर्म न व्यभिचार:(२), तथाचाभिधेयत्वं यनिष्ठान्योन्याभावप्रतियोगितावच्छेदक स एव विपक्ष इति भावः । 'धर्मवादिति भाकामादौ व्यभिचारवारणय, तथाच यो यत्सम्बन्धेन वृत्तिमान् स तत्सम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताकान्योन्याभावप्रतियोगितावच्छेदकत्ववान् इति यत्तयां व्याप्तिः, अत एव 'गोत्ववदिति न दृष्टान्तासङ्गतिः, न वा सम्बन्धान्तरावच्छिन्नप्रतियोगितावच्छेदकताकान्योन्याभावप्रतियोगितावच्छेदकतामादायार्थान्तरं, 'गोत्ववदिति व्यतिरेकेण वा दृष्टान्तः,
(१) अभिधेयत्वस्येति ग०, ध०। (२) गुराधर्मस्य प्रतियोगितानवच्छेदकत्वे किञ्चिनिष्ठान्योन्याभावप्रति
योगितावच्छेदकत्वाभाववति कम्बुग्रीवादिमत्त्वरूपगुरुधर्मे हेतोधर्मत्वस्य वर्तमानत्वेन व्यभिचारः स्यादतो गुरुधर्मस्यावच्छेदकत्वाङ्गीकारः, धर्मत्वञ्च वृत्तिमत्वं अतः किञ्चिबिछान्योन्याभावप्रतियोगितावच्छेदकत्वाभाववति चाकाशे न व्यभिचारः ।