________________
परामर्शः।
विषयाधूमविशेषणिकानुमितिः ज्ञायमानविशेषणजन्या विशेषणसमानकालतया विशेष्यविषयेऽशाब्दविशिष्टज्ञानत्वात् दण्डौ पुरुष इति प्रत्ययवत्। अतधूमवान् पर्वतो वहिमान् इत्यादिधमममानकालीनत्वविषयकशाब्दबुद्धौ व्यभिचारवारणाय शाब्दान्येति, एवमुपमित्यन्यत्वं धूमाजन्यप्रत्यक्षान्यत्वञ्च वाच्यं तेन धूमवत्पर्वतविशेष्यकोपमितौ तादृशोपनौतभाने च न व्यभिचारः। यत्र धूमसमानकालीनत्व विशिष्टसंयोगादिसम्बन्धन पर्वते वयादिकं साध्यं धूमध्वंमादिश्च हेतुर्यत्र वा धूमसमानकालीनत्वविशिष्टमयोगादिसम्बन्धेन वह्यादिविशिष्टः पर्वतः पक्ष: धूमध्वंसादिहेतुः तत्र व्यभिचारवारणायाजन्यान्तं ज्ञानविशेषणं, धूमसमानकालीनत्वस्य पक्षतावच्छेदकघटकले माध्यतावच्छेदकसम्बन्धघटकत्वे वा तज्ज्ञानस्यावश्यं जनकत्वात् । एवं यत्रेतरसम्बन्धेन बाधात् धूमकालीनत्वविशिष्टसंयोगादिसम्बन्धेनानुमितिस्तत्रापौतरत्वप्रतियोगितया बाधज्ञानस्यैव धूमकालौनत्वविषयकत्वेन तज्ज्ञानजन्यत्वात् न व्यभिचार इति भावः । अतएव तादृशानुमितिषु बाध-भागामिद्धिवारणाय पोऽप्यजन्यान्तं अनुमितिविशेषणं । न चैवं यत्र धूमकालौनत्वं प्रकारतया संसर्गतया वा साध्यतावच्छेदक-पक्षतावच्छेदकघटकं माध्यतावच्छेदकसम्बन्धघटकं वा तादृशधूमलिङ्गकानुमितौनां पक्षवहि ततया न तासां धूमजन्यवसिद्धिरिति वाच्या हेत्वन्तरेण तत्रापि तत्मिद्धिसम्भवादिति भावः । या यनिष्ठविशेष्यतानिरूपितयद्धर्मसमानकालीनलविषयतामालितद्धर्मसमानकालौनत्वग्रहाजन्यभाब्दाद्यतिरिक्रधौर्भवति मा तद्विशेष्यक-तत्प्रकारकज्ञानविशिष्ट