________________
५३४
एव ज्ञायमान विशेषणजन्यत्वेन विशेषणकालवृत्तितया विशेष्यभाननैयत्यं यथा दण्डी पुरुष इतिप्रत्यक्षे, तेन धूमसमानकालीनवह्निसिद्धिः, अन्यथा तत्तडूमकाल - तद्धर्मजन्या भवतीति सामान्यतो व्याप्यभिप्रायेण दृष्टान्तमाह, 'दण्डी पुरुषतौति, तदपि पुरुषनिष्ठविशेष्यतानिरूपित - पुरुषत्वकालीनत्वविषयताशात्रिपुरुषत्वसमानकालीनत्वग्रहाजन्यबुद्धिर्भवति अथच पुरुषविशेष्यकज्ञानविशिष्टपुरुषत्वजन्यापि भवति, लौकिकप्रत्यचं प्रति विषयस्य हेतुताया विशिष्टाधिकरणक वैशिष्यबुद्धिं प्रति विशेष्यतावच्छेदकप्रकारकविशेय्यज्ञानस्य हेतुतायाश्च सर्वसिद्धत्वादिति भावः । न चात्र पुरुषत्वकालौनविषयतैव नास्ति कुतोऽस्य दृष्टान्तत्वं किञ्चिडूर्मविशिष्टे विशेषणं सत् यद्विशेय्यतावच्छेदकं तत्समानकालीनत्वस्यैव विशिष्टाधिकरणकवै शिट्यानुभवे संसर्गतया भाननियमात् इति वाच्यं । तादृश नियमे मानाभावात् (१), विशेष्यतावच्छेदकमात्र स्यैवामति बाधके समानकालीनत्वस्य भानात् ।
चिन्तामयी
केचित्तु 'दण्डो पुरुष इति प्रत्यचव दित्यस्य (९) दण्डी पुरुषो गच्छतौति प्रत्यक्षवदित्यर्थः तथाच दण्डसमानकालीनत्वभानमादायैव
"
दृष्टान्ततेत्याहुः ।
न च तथापि नौलपर्व्वतो वह्निमान् धूमात् पर्व्वतो वह्निमान्धूमादित्यादावनुमितेन पर्वतत्यादिरूपपचतावच्छेदकाजन्यतया तादृश(२) तादृशविषयविशेषे मानाभावादिति ग०, तादृश विषय स्वीकारे मानाभावादिति ७० ।
(२) अनेन 'प्रत्ययवत्' इत्यत्र 'प्रत्यक्षवत्' इति कस्यचिन्मून पुस्तकस्य पाठोऽनुमयत इति ।