________________
५१२ ।
सावचिन्तामणे
विशेषणान्तराभावेन लिङ्गमेव विशेषकं तथाचानन्यथासिद्धत्वात् तदपि हेतुः अन्यथा परिचायकतया संयोगेनान्यथासिङ्कमिन्द्रियमपि कारणं न स्यात् । अपि च धूमवान् वहिमानिति धूमसमानकालवाहव्यभिचारवारणय निरूपितान्तं विषयताविशेषणं, अतएव तादृभानुमितिषु बाध-भागामिद्धिवारणय पक्षेऽपि शाख्यन्तमनुमितिविशेषणं। न चैवं तादृशविषयतामाख्यनुमितौ लिङ्गस्य हेतुत्वमिद्धवावपि अनुमितिमा प्रति लिङ्गस्य न हेतुत्वमिद्धिरिति वाच्यं। प्राचा[मते लिङ्गोपहितलैङ्गिकभाननियमेनानुमितिमात्रस्यैव लिङ्गविभिशुपचे माध्यवैभिव्यविषयकतया लिङ्गसमानकालीनत्वस्य संसर्गघटकतया पोऽवश्यं भानात्। न च धूमविभिष्टपर्वतविशेष्यताशालिनौत्येवाच्यतां किं समानकालौनत्वप्रवेशेनेति वाच्यं। धूमवान् पर्वतो वहिमान् धूमध्वंसादित्यनुमितेधूमाजन्यत्वात् व्यभिचारापत्तेः । न च समानकालीनत्वोपादानेऽपि तद्दोषतादवस्यं तत्रापि धूमस्य विशेष्यतावच्छेदकतया तत्समानकालौनत्वस्य संसर्गघटकतया भानादिति वाच्यं। प्राचार्य्यनये शाब्दाद्यतिरिक्तज्ञाने तत्ममानकालौनत्वस्य ज्ञानं विना तत्ममानकालौनत्वभानं प्रति तन्नन्यत्वस्य नियामकतया लिङ्गातिरिक्तविशेष्यतावच्छेदकसमानकालीनत्वस्थाज्ञातस्य संसर्गतयानुमितावभानात् लिङ्गातिरिक्तविशेष्यतावच्छेदकस्यानुमितावहेतृत्वात् अतएव तदानौं धूमवान् पर्वतो वद्धिमान्तमादित्यनौतादिखिकानुमितावपि न व्यभिचारः अतीतादिलिङ्गस्याजनकतया तत्समानकालौनत्वस्याभानात्, शाब्दबोधे विषयस्याहेतुतया