________________
परामर्शः।
लिङ्गम् । अथ परामर्शमाचं न हेतुरपि तु लिङ्गपरामर्शः, तथाच लिङ्गमपि हेतुः विशिष्टकारणताग्राहकमानेन बाधकं विना विशेषणस्यापि हेतुत्वग्रहात्। न च लिङ्गं परामर्शपरिचायकत्वेनान्यथासिहं, परिचेये अन्यथा पर्वतत्व-वन्यादिरूपविशेषणजन्यतयार्थान्तरापत्तेः। लिङ्गस्य कारणत्वे किं पक्षविशेष्यक-तज्ज्ञानस्य कारणत्वमेव नेत्याशङ्कामपनेतुं पर्चतविशेष्यक-धूमप्रकारकज्ञानस्थापि कारणतामिद्ध्ये विशिष्टान्तं धूमविशेषणं, वैशिष्यञ्च प्रकारतासम्बन्धेन। न च विशिष्टान्तोपादानएव कथं तादृशज्ञानस्य जनकत्वसिद्धिरिति वाच्यं । प्राचार्य्यमते विशिष्ट कारणताग्राहकप्रमाणेनासति बाधके विशेषणस्यापि कारणत्वयनियमेन तत्सिद्धेः। पर्वतविशेष्यक-खजनकज्ञानप्रकारौभूतधूमजन्येत्येव वा माध्यं, तथाच स्फुटैव तत्सिद्धिः । न च एतावता धूमस्य जनकत्वसिद्धावपि लिङ्गत्वस्य तदवच्छेदकत्वामिड्या नोहेश्यसिद्धिरिति वाच्यं। धूमस्य जनकत्वसिद्धी सामान्यतोलिङ्गत्वस्यैव लाघवात्तदवच्छेदकत्वकल्पनादिति हृदयं । 'विशेषणसमानकालतयेति विशेषणपदं धूमपरं, विशेष्यपदं पर्वतपरं, विशिष्टपदञ्च विलक्षणपरं, तथाच धूमसमानकालौनतया पर्वते शाब्दान्यविलक्षणज्ञानत्वादित्यर्थः, वैलक्षण्यश्च धूमसमानकालौनत्वज्ञानाजन्यत्वं, इत्थश्च पर्वतनिष्ठविशेष्यतानिरूपितधूमसमानकालौनत्वविषयताशालिशाब्दान्यधूमसमानकालौनत्वज्ञानाजन्यज्ञानत्वादिति हेतुः फलितः, धूमान्यलिङ्गकानुमितिषु व्यभिचारवारणाय माल्यन्तं चरमज्ञानविशेषणं, पर्वतान्यपक्षकधूमलिङ्गकानुमितिषु पर्वतविशेष्यकज्ञानविशिष्टधूमाजन्यतया