________________
५३.
तवचिन्तामणौ
चारात्, तस्मात् पक्षत्तिलिङ्गपरामर्शस्यायं स्वभावो यस्खाश्रयविशेष्यिकामनुमितिं जनयति नातथाभूतामेवं ममापि तुल्यमिति।
एवं लिङ्गपरामर्श एव कारणं न तु परामृष्यमाणं अन्ये तु विशेष्यतावच्छेदक-विशेष्ययोः संसर्गस्तत्, विधेयसमानकालीनवविभिष्टविगेय्यतावच्छेदकतानियामकसम्बन्धेन विशेष्यतावच्छेदकस्य विशेष्ये प्रकारत्वात्, अतएव दण्डौ पुरुषः कुण्डलौत्यादौ कुण्डलादिनमानकालोनल विशिष्टसंयोगसम्बन्धेन दण्डादिकं पुरुषे प्रकारइत्याहुः।
तत्र मध्यममतानुसारेणानुमानात् लिङ्गस्य कारणत्वं माधयति, 'अपि चेति, 'धूमवानित्यादि अनुमित्यन्तं पक्षनिर्देशः, धूमवानयं वकिमानिति या वहि-धूमयोः समानकालीनत्वविषयता तच्छालिनौति विषयान्नार्थः, धूमसमानकालौनवविषयतायाः पर्वतनिष्ठविशेष्यतानिरूपितत्वलाभाय इत्यन्तं विषयताविशेषणं, वकिपदञ्च खरूपकथनं, तथाच पर्वतनिष्ठविशेष्यतानिरूपिता या धूमसमानकालौनवविषयता तच्छालिनौति पर्यवसितार्थः, 'अधूमविशेषणिकेत्यकारप्रश्लेषः, तथाच धूमः समानकालौनत्वांशे विशेषणं यत्रेति व्युत्पत्त्या धूमविशेषणकं धूमसमानकालीनत्वज्ञानं तत् जन्यतासम्बन्धेन म विद्यते यति व्युत्पत्त्या धूमसमानकालौनत्वज्ञानाजन्येत्यर्थः, एवञ्च पर्वतनिष्ठविशेष्यतानिरूपितधूमसमानकालीनत्वविषयताशालिनी धूमसमानकालौनत्वज्ञानाजन्यानुमितिः पक्ष इति भावः । प्रत्येकदलव्यावृत्तिस्तु हेतव्याख्यानावसरे स्फुटौभविष्यति। 'शायमामविशेषणेति पळतविशेष्यक-धूमप्रकारकज्ञानविशिष्टधूमजन्येत्यर्थः,