________________
परामर्शः।
५२८
जानजन्यज्ञानदर्शनात्, अन्यथा तवापि कथं पक्षविशेध्यकत्वनियमः, न हि कारणीभूतज्ञाने यहिशेष्यतया भासते तत्का-भूतेऽपि तथा, इह भूतले घटनास्तीतिज्ञानजन्ये घटाभाववद्भूतलमितिज्ञाने तच च व्यभिन हेतुः स्यादिति योजना, विशिष्टाधिकरणकवैशिष्यानुभवे विशेष्यतावच्छेदक-विधेययोः समानकालीनत्वमसति बाधादिप्रतिबन्धक(१) अवश्यं भासते, तदानञ्च न प्रकारतया, दण्डौ पुरुषः कुण्डलीत्यादौ दण्डादिसमानकालौनत्वस्य प्रकारत्वाननुभवात् समानकालोनत्वस्याज्ञानदशायां तस्य प्रकारत्वासम्भवाच्च, किन्तु मंसर्गतयेति सर्वजनमिद्धमिद्धान्तः, तस्य संसर्गता च विधेये विशेष्यतावच्छेदकस्य, समानकालौनतासम्बन्धेन विशेष्यतावच्छेदकस्य विधेयेऽपि प्रकारत्वात्। अतएव दण्डौ पुरुषः कुण्डलोत्यादौ दण्डादिकं मंयोगसम्बन्धेन पुरुष व समानकालौनत्वसम्बन्धन विधेये कुण्डलेऽपि प्रकार इति प्राञ्चः। तदसत्। दण्डौ पुरुषः कुण्डलीत्यादौ दण्डादिसमानकालौनत्ववत् समानकालौनत्वसम्बन्धेन दण्डादेरपि कुण्डलादौ प्रकारत्वस्थानुभवबाधितत्वात् तथा मति दण्डौ पुरुषोदण्डवत्कुण्डलौति तदाकारापत्तेः ।
केचित्तु उद्देश्ये विधेयस्य संसर्गस्तत्, विशेष्यतावच्छेदकसमानकालीनत्वविशिष्टविधेयतानियामकसम्बन्धन विधेयस्य उद्देश्ये प्रकारत्वात्। अत एव दण्डौ पुरुषः कुण्डलीत्यादौ दण्डादिसमानकालौनत्वविशिष्टमयोगसम्बन्धेन पुरुषे कुल्डस्लादिकं प्रकार इत्याहुः।
(९) बाधक इति कः ।