________________
· परामर्शः।
५२७ असनिकृष्टधूमादाविव मानस एव हि सर्वच परामर्श चक्षुरन्वय-व्यतिरेकानुविधानञ्च पक्षत्तिधूमापनयोपक्षौणम्।
अथ जनकज्ञाने उपसर्जनतया भातस्य पक्षस्य साध्यव्याप्यत्वं, माध्यसम्बन्धितावच्छेदकरूपवत्वं, प्राचार्य्यमते स्वरूपसम्बन्धात्मकावच्छेदकताघटिततया लाघवेन तज्ज्ञानस्यैवानुमितिहेतुत्वादिति भावः। मानाभावादिति इतरुताः। प्राचार्योकं प्रमाएमाभते, 'अथेति, परामर्शमात्र' ज्ञानमात्र, 'लिङ्गपरामर्गः यथोकलिङ्गपरामर्शत्वाश्रयः, 'तथाचेति, यथोलिङ्गपरामर्शवस्य जनकतावच्छेदकतयेति शेषः, 'लिङ्गमपि हेतुः' माध्यव्याप्यत्वावच्छिन्नविषयतावत्त्वरूपं लिङ्गत्वमपि हेतुतावच्छेदक, 'विशिष्टेति यथोक्तलिङ्गपरामर्शत्वरूपविशिष्टधर्मस्य कारणतावच्छेदकताग्राहकं यन्मानं तादृशधर्मावच्छिन्नान्वय-व्यतिरेकसहरूतं प्रत्यक्षं तेनेत्यर्थः, 'वाधक विनेति अन्यथासिद्धि-व्यभिचारादिकं विनेत्यर्थः, 'विशेषणस्यापि हेतुत्वग्रहात्' विशेषणावच्छेदेनापि हेतुत्वग्रहात् विशेषणीभूतस्यापि यथोक्तविषयतारूपस्य लिङ्गत्वस्य खरूपसम्बन्धेन परामर्थकार्य्यतावच्छेदकावच्छिन्नं प्रति कारणतावच्छेदकत्वग्रहादिति यावत् । न चैवं यथोक्तविषयताप्रतियोगिकज्ञानत्ववत् व्याप्यत्वावच्छिन्नविषयतानिरूपित-पक्षतावच्छेदकावच्छिन्नविषयताप्रतियोगिकज्ञानवस्थापि विनिगमनाविरहेण लिङ्गपरामर्शत्वरूपतयानुमितिकारणतावरे दकत्वेन तविशेषणोभूतस्यापि पचतावच्छेदकावच्छिन्नविषयताववरूपपक्षत्वस्थानुमितिकारणतावच्छेदकत्वापत्तिरिति वायं। इष्ट