________________
तत्त्वचिन्तामणौ
५२८ प्रतियोगित्वं, न तु धूमसामानाधिकरण्यं, व्याप्यत्वन्तु सामानाधिकरण्यविशेष इति तवैवानुमितिरफला स्यात् । न चैवं परामर्शस्य चाक्षुषत्वं न स्याड्यापकस्य विशेष्यस्येन्द्रियासन्निकर्षादिति वाच्यम्। इष्टत्वात्, हरणत्वात् । न चैवं कथकसम्प्रदायविरोध इति वाच्यं । युक्तों मति तस्याकिञ्चित्करत्वात्(१), प्राचौनरेतत्सूक्ष्मानालोकनेनैव तदभ्युपगमात्र) अन्यथा तवापि वहिव्याप्यधूमवानयमित्युपनविरोधात् पर्वतवृत्तिधमव्यापको वहिरित्येतस्यैवोचितत्वादितिपदिक् ।
पूर्वं न तु परामृष्यमाणं लिङ्गं करणमिति वक्ष्यते' इति यदुक्तं तदेव प्रसङ्गादाह, “एवमिति यथानुमितिकारणतावच्छेदकतया मौमांसकाभिमतं व्याप्यतावच्छेदकप्रकारकव्याप्तिनिश्चयत्वादिकं नानुमितिकारणतावच्छेदक अपि तु पक्षतावच्छेदकावच्छिन्नविषयतानिरूपित-व्याप्यत्वावच्छिन्नविषयताप्रतियोगिकज्ञानत्वरूपं लिङ्गपरामर्मत्वं तथेत्यर्थः। 'लिङ्गपरामर्श एव' यथोक्तलिङ्गपरामर्श एव यथोक्तलिङ्गपरामर्शत्वमेवेति यावत्, ‘कारणं' कारणतावच्छेदकं, एवकारव्यावृत्तमेव() विवृणोति,'न विति, परामृष्यमाणं लिङ्ग प्राचार्याभिमतं परामृष्यमाणत्वरूपं लिङ्गत्वमपि, परामृष्यमाणत्वञ्च साध्यव्याप्यत्वावच्छिन्नविषयतावत्वं, माध्यव्याप्यत्वञ्च साध्याभाववदवृत्तित्वं । वस्तुतस्तु (१) तबिरोधस्याकिश्चित्वरत्वादिति । (२) तथोदाहरणाभ्युपगमादिति छ । (२) इत्यपनयस्यैवोचितवादितौति । (8) एवकारश्ववच्छेद्यमेवेति ख. २० ।