________________
५२२
तत्त्वचिन्तामणौ
व्यापकत्वं, तत्सामानाधिकरण्यञ्च व्याप्यत्वं, तथाच लाघवात् व्यापकताज्ञानमनुमितिहेतुः, साध्यस्य पक्षधर्मव्यापकताज्ञानञ्च परामर्शः, न तु साध्यव्याप्तस्य पक्षधर्माताज्ञानं साध्यव्याप्यवत्यक्षजानं वा गौरवात्। अतएव योयोधूमवान् सोनिमानित्युदाहरणवाक्ये
मनूदाहरणवाक्यात् कथं व्यापकत्वलाभः तस्यापदार्थत्वादिति चेत्, अत्र केचित्, धूमवति धूमव्यापकविशिष्टाभेदसम्बन्धेन वद्धिमतोऽवयात् संसर्गमर्यादयैव वहौ धूमव्यापकत्वलाभः, वहिमदभेदस्य वहिरूपत्वात् वौमा च तात्पर्यग्राहिकेत्याहुः। तन्त्र(१)। संसर्गमर्यादया व्यापकताज्ञानस्य परामर्शानुपयोगितया तत्प्रदर्शनस्य व्यर्थत्वापत्तेः। वस्तुतस्तु वहिवाचकपदस्य धूमव्यापकवह्नौ लक्षणया धूमवत्यभेदसम्बन्धेन धूमव्यापकवहिमतोऽन्वयात् वह्नौ प्रकारतयैव धूमव्यापकत्वलाभात् वौसा च तात्पर्यग्राहिकेत्येव तत्त्वं । 'अन्यथेति यदि साध्यवदन्यावृत्तित्वज्ञानं कारणं तदेत्यर्थः, 'अन्ययोगेति, अन्ययोगव्यवच्छेदश्च माध्यवदन्यस्मिन् योगव्यवच्छेदः माध्यवदन्यत्तित्वव्यव
छेद इति यावत्, बोधकत्वं बतौयार्थः, तथाच माध्यवदन्यवृत्तित्वव्यवच्छेदबोधकमुदाहरणस्वरूपं स्थादित्यर्थः । मनु यदि हेतुनिष्ठव्याप्तिज्ञानं न तन्त्रं तदा तद्विघटनाय हेतुनिष्ठतया दोषोद्भावनं न स्थात् किन्तु माध्यनिष्ठतयैव तदुद्भावनं स्थादित्यत्र इष्टापत्तिमाह, 'दोषोऽपौति, 'श्रादिना व्याप्यत्वासिद्धिपरिग्रहः, 'न पक्षधर्मव्यापकमिति न हेतुतावच्छेदकावच्छिवव्यापकतावच्छेदक माध्यता(९) तदसदिति छ।