________________
५२.
तत्वचिन्तामो
तया भासमानस्यावश्यं व्याप्यतामह, मानाभावात् ।
दिकमुपलक्षणविधया धूमादौ प्रकारः, न तु व्यापकतायां तदन्तर्भावः, तेन विशिष्य पर्वतीयधूमव्यापकत्वस्व प्रागननुभूतत्वेऽप्यनुमिति नुपपत्रा, न वा 'अतएवेत्याद्यग्रिमग्रन्थविरोध इति ध्येयं । ‘माध्यव्याप्तस्येति, सप्तम्यर्थ षष्ठी, 'पक्षधर्मताज्ञान' पक्षवैशिष्यज्ञानं, तथाच वहिव्याप्यो धूमः पर्वते इत्याकारक-व्याप्यविशेष्यक-पक्षप्रकारकज्ञानमित्यर्थः ।
प्रावस्तु 'पक्षधर्मताजान' पक्षवृत्तिताज्ञानं तथाच वहिव्याप्यो धूमः पर्वतवृत्तिरित्याकारकं ज्ञानमित्यर्थः, यदा ‘साध्यव्याप्तस्येति 'व्याप्तपदं भावमाधनं साध्यव्याप्तेरित्यर्थः, 'पक्षधर्मताज्ञान' पक्षवृत्तित्वप्रकारेण ज्ञानं, तथाच पर्वतवृत्तिधूमो वहिव्याप्य इत्याकारक ज्ञानमित्यर्थः 'तस्मादित्यादिना तादृशज्ञानस्यैव पूर्वममुमितिजनकपरामर्शत्वाभिधानादित्याजः।। ___ माध्यव्याप्यवदिति माध्यव्याप्तिविशिष्ट प्रकारकं पक्षविशेष्यकज्ञानं वेत्यर्थः, 'गौरवादिति सामानाधिकरण्यांविषयत्वस्याधिकस्य कारणतावच्छेदककोटौ निवेशनगौरवादित्यर्थः। न चैवं हेतौ माध्यमामानाधिकरप्यस्य मंगये व्यतिरेकनिश्चये वा नुमित्यापत्तिरिति वाच्यं । माध्याभाववदवृत्तित्वज्ञानस्यैव हेतुतावादिनामिवेष्टत्वात्। न चैवं पक्षवृत्तिधूमव्यापको वहिरिति ज्ञानादयसमानाधिकरणधूमवान् पर्वत इति ज्ञानसत्त्वेऽप्यनुमितिः स्यादिति वाच्या माध्यासमानाधिकरणधर्मान्तरवत्तायहस्येव तस्याप्यनुमितिं प्रति माहाविरो