________________
परामर्शः।
५१६
विदुषोऽपि धूमावखनुमानं, न हि व्याप्यतावच्छेदक
विभिष्टधूमे वहिव्याप्तिविशिष्टज्ञानमिति क्रमेण हतोयत्वसम्भवादित्याऊ । तदसत् । वहिव्याप्यो धूमः पर्वत इत्याकारकस्य व्याप्तिविशिष्टविशेष्यक-पक्षप्रकारकज्ञानस्यैव वहिव्यायधूमवान् पर्वत इत्यादिपक्षविशेष्यकपरामर्शन समं विनिगमनाविरहेणानुमितिहेतुत्वाभ्युपगमान् पर्वतवृत्तिधूमो वहिव्याय इत्यादिज्ञानस्य च यथोक्रपक्षविशेष्यक-परामर्शापेक्षया गुरुत्वात् पक्षतावच्छेदकावच्छिन्न-पक्षविषयतानिरूपित-व्याप्यत्वावच्छिन्नविषयताप्रतियोगिकनिश्चयत्वेन व्याप्यविशेष्यक-पक्षविशेष्यकपरामर्शीभयसाधारणधर्मेण हेतुतामते तस्य कारणतावच्छेदकानाक्रान्तबादिति ध्येयं ।
व्यापकतापरामर्शस्य हेतुतावादिनां मतमाह, 'अन्ये विति, 'प्रतियोगित्वं' प्रतियोगितानवच्छेदकमाध्यतावच्छेदकवत्त्वं, 'व्यापकताज्ञानमिति माध्यतावच्छेदकविशेष्यक-हेतुसमानाधिकरणभावप्रतियोगितानवच्छेदकत्वज्ञानमित्यर्थः, 'अनुमितिहेतः' अनुमितिकारणं, माध्यस्येति माध्यविशेष्यकं हेतुतावच्छेदकविशिष्टे उपलक्षणविधया पक्षवृत्तिलप्रकारकं उपलक्षणविधया हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयतासम्बन्धेन पक्षप्रकारकं वा हेतुतावच्छेदकविशिष्टवधिहाभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकवत्त्वज्ञानमित्यर्थः, परामर्थः' अनुमितिजनकपरामर्शः, तथाच पर्वतत्तिधूमव्यापको वहिरित्याकारकं पर्वतवद्धमव्यापको वहिरित्याकारकं वा माध्यविशेष्यकशानं अनुमितिजनकपरामर्थ इति भावः । अत्र च पर्वतवृत्तित्वा