________________
परामर्शः ।
तपदार्थानां बाधकानवतारे मनसा संसर्गानुभवस्य सकलजनसिद्धत्वात् कथमन्यथा कविकाव्यादिकमिति ।
स्यादेतत् पचधर्म्मस्य व्याप्यताज्ञानं नेन्द्रियेण वरसत्रिकर्षे तत्रियतसामानाधिकरण्यस्य व्याप्यत्वस्या
મ
प्रत्यचजनकत्वे, 'उपनयस्य' तत्तदुपनयस्य, 'प्रमाणान्तरत्वं' प्रमाणान्तरत्वप्रसङ्गः पर्वतादिविशेष्यक- लिङ्ग विषयकप्रमाकरणत्वप्रसङ्ग इति यावत्, यदमाधारणमित्याद्युक्रव्याप्तेरिति भाव: । 'नियतव्यापाराभावेन' करणवव्यापकस्य तज्जनकव्यापारवत्त्वस्याभावेन, 'प्रमायामकरणत्वात्' पर्वतादिविशेष्यकवह्निव्याप्यादिप्रकारकप्रमायाः करणत्वापादनासम्भवात्, यस्य तु व्यापारसम्भवस्तस्य करणत्वमिष्टमेव । यद्यप्यापत्तौ बाधोऽनुगुण एव, तथापि तदर्थविषयकज्ञानहेतुव्यापारवत्त्वे सति तदर्थविषयक ज्ञाना साधारणकारणत्वमेव तदर्थ - विषयकप्रमाकरणत्वयोग्यं (९) न तु यदसाधारणमित्याधुको हेतुर्मानाभावात् इति भावः । ननु व्यापाराभावे सहकारितैव कुतइत्यत आह, 'सहकारिता चेति, यदसाधारणेत्यादिव्याप्तौ व्यभिचारमप्याह, 'वहिरिन्द्रियेति, 'बाधकानवतारे' श्रवत्यां बाधादिबुद्धौ, 'सकलजनसिद्धत्वाश्चेति पाठः, चकारशून्यपाठे चकारः पूरणीयः, 'कथमन्यथेति, वाक्यार्थज्ञानं विना वाक्यप्रयोगासम्भवादिति भावः ।
(१) तदर्थविषयक प्रमाकर व्यत्वव्याप्यमित्यर्थः, कचित्तथैव पाठः ।
64