________________
५०४
तत्वचिन्तामणे
प्रमाहेतुत्वे उपनयस्य प्रमाणान्तरत्वम्, इन्द्रियादेः सनिकर्षवद्पनयस्य नियतव्यापाराभावेन प्रमायामकरणत्वात्, सहकारिता च तदभावेऽपि भवति वहिरिन्द्रियलिङ्गसादृश्यादिव्यापार विनापि चिन्तोपनी
'म चेति, 'धमत्वज्ञानेति धूमत्वप्रकारकपक्षधर्मताज्ञानेत्यर्थः । ननु गुरूणां उपनौतभानानङ्गीकर्तृणां कथं मानसबोध इत्यत आह, 'यथेति, प्रत्येकानुमानेति श्राकाशं निरवयवद्रव्यं परममहत्त्वात् अाकाशं नित्यपरिमाणवत् अमूर्त्तद्रव्यत्वादित्यनुमानाभ्यां श्राकाशवृत्तितयोपनौतेत्यर्थः, 'त्राकाशवृत्तितया स्मरण इति, एतेन सहचारज्ञानं सम्पादितं, 'मनसा व्याप्यनुभव इति,(९) न च तत्र स्मरणरूपमेव व्याप्तिज्ञानं स्थादिति वाच्यं । व्याप्यस्मरणेऽयनुमित्युत्पत्तेरिति भावः । ननु तत्र माथ-साधनग्राहकप्रत्येकानुमानाभ्यामेव व्याप्तिज्ञानं स्यात् किं मानसेन इत्यत आह, 'अनुमानयोरिति, 'व्याप्यग्राहकत्वादिति व्याप्यविषयकवादित्यर्थः, न कि सहचारविषयकं ज्ञानं नियतसहचारात्मकन्याप्तिविषयकं सम्भवतौति ध्येयं । 'तचापौति, न च तत्राप्यनुमानान्तराड्याप्तिग्रह इति वाच्य। तादृशाविरललनव्याप्यनुमितिधाराविरहेप्यनुमितेरानुभविकत्वादिति भावः । 'तदुपनयमहितस्य' तत्तदुपनयरूपामाधारणकारणसहितस्य, 'वहिरर्थप्रमाजनकत्वे' पर्वतादिवहिर्विशेष्यक-लिङ्ग(१) व्यापकत्वघटकयत्पदार्थोपस्थितिदशायामित्यादि, अन्यथा व्यापक. त्वस्योपनायकाभावात् व्याप्तानुभवोन सम्भवतीति भावः।