________________
परामर्शः।
न्द्रियसाध्य-साधनयोराकाशत्तितया स्मरणे व्यभिचाराजाने मनसा व्याप्त्यनुभवः अनुमानयोः प्रत्येकतदुभयसहचाराविषयत्वेन व्याप्त्यग्राहकत्वात्। न चातौन्द्रियव्याप्यत्वमतौन्द्रिये नुमेयं, तथापि व्याप्तिाहकाभावात् । न च तदुपनयसहितस्य मनसा वहिरर्थ
ज्ञानसत्त्वे कार्य-कारणभावग्रहस्य तनिश्चयप्रयोजकतया मंशयरूपमेव तज्ज्ञानं भविष्यतीति तच्च न दोषताप्रयोजक निश्चितगौरवस्यैव दोषत्वात्,(१) एतदज्ञानश्चेत् तथापि न दोषाय स्वरूपसगौरवस्थादोषत्वादिति भावः ।
केचित्तु ‘सप्रमाणकत्वादिति अनुमित्यात्मक कार्यरूपप्रमाणगम्यवादित्यर्थः,(२) उनानुमानेनैव तमिद्धेरिति भावः । ननु कार्यस्थ सप्रमाणत्वं कार्य-कारणभावग्रहे मति स्थादनुकूलतर्कविधया तस्य तत्रोपयोगात् स एव न सम्भवति गौरवेण प्रतिबन्धादित्यत आह, 'कारणतेति, अर्थस्तु पूर्ववदित्याहुः ।
'सप्रमाणकत्वादिति यथाश्रुतन्तु न मङ्गच्छते सप्रमाणकत्वस्यादोषत्वप्रयोजकत्वे गौरवमावस्यैवादोषतापत्तेः, न ह्यप्रामाणिक गौरवमस्तौति ध्येयं । इन्द्रियामविकष्टस्थले प्रागुक्रव्यभिचारमुद्धरति,
...................... .
(१) दोषताप्रयोजकत्वादिति घ०। (२) अनुमित्यात्मकपरामर्श कार्यरूपप्रमाणगम्यत्वादित्यर्थ इति ।