________________
व्याप्तिवादः।
सत्त्वात् इत्यादौ निरंवछिन्नमाध्याभावाधिकरणवामिद्याव्याप्तिरिति वाच्यम् । केवलान्वयिन्यभावादित्यनेन ग्रन्थकतैवास्य दोषस्य वक्ष्यमाणत्वात्। न च तथापि संयोगिभिन्नं गुणत्वादित्यादौ निरवछिन्नध्याभावाधिकरणत्वाप्रमियाव्याप्तिः अन्योन्याभावस्थ व्यायवृत्तित्वनियमवादिनये तस्य केवलान्वय्यनन्तर्गतत्वादिति वाच्यम् । अन्योन्याभावस्य व्याप्यवृत्तितानियमवादिनये अन्योन्याभावान्तरात्यन्ताभावस्य प्रतियोगितावच्छेदकखरूपत्वेऽप्यव्याप्यवृत्तिमदन्योन्याभावाभावस्य व्याप्यवृत्तिखरूपस्यातिरिक्तस्याभ्युपगमात् तच्चाये स्फुटौभविष्यति । ___ ननु तथापि समवायादिना गगनादिहेतुके इदं वहिमद्गगनादित्यादावतिव्याप्तिः वयभाववति हेतुतावच्छेदकसमवायादिसम्बन्धेन गगनादेरवृत्तेः। न च तलक्ष्यमेव हेतुतावच्छेदकसम्बन्धेन पक्षधर्मावाभावाचामद्धतत्वव्यवहार इति वाच्यम् । तत्रापि व्याप्तिभ्रमेणेवानुमितेरनुभवमिद्धत्वात्, अन्यथा धूमवान् बहेरित्यादेरपि लक्ष्यत्वस्य सुवचत्वात्। एवं द्रव्यं गुण-कर्मान्यत्वविशिष्टसत्त्वादित्यादावव्याप्तिः विशिष्टमत्वस्य केवलमत्त्वानतिरेकितया द्रव्यत्वाभाववत्यपि गुण्णदौ तस्य वृत्तेः गुणे गुण-कर्मान्यत्वविशिष्टमत्तेति प्रतौतेः सर्वमिद्धखात्। सत्तावान् द्रव्यत्वादित्यादावव्याप्तिश्च सत्ताभाववति सामान्यादौ हेतुतावच्छेदकसमवायसम्बन्धेन वृत्तेरप्रसिद्धेरिति चेत्। न । हेतुतावच्छेदकावच्छिन्न हेत्वधिकरणताप्रतियोगिक-हेतुतावच्छेदकसम्बन्धावच्छिनाधेयतानिरूपितविशेषणताविशेषसम्बन्धन निरुकमाध्याभावबविशिष्टनिरूपितनिरुक्तसम्बन्धसंसर्गकनिरवच्छिवाधिकरणताया