________________
५..
तत्त्वचिन्तामणे
शाब्दव्याप्यत्वबुद्धौ च प्रत्येकत्तिव्यात्याश्रयत्वस्यैव विषयत्वात् प्रत्येकवत्तिव्याप्तिज्ञानं विना तदोधाभावात् । अपि च यच धूमत्व-व्यात्योवैशिष्ट्यं प्रथममेव
'अन्यत्रापि' वहिव्याप्यो धूमः धूमवान् पर्वत इत्यादिज्ञानोत्तरमनुमितावपि, 'तथा' तादृशविषयताशालिज्ञानं कारणं, न तु सर्वत्र व्याप्यताच्छेदकप्रकारकव्याप्यादिज्ञानमेव कारणमिति नियमोऽचैव व्यभिचारादिति भावः। व्यभिचारमुद्धरति, 'अथेति, तथाच व्याप्यत्वप्रकारकज्ञानस्यैव व्याप्यतावच्छेदकप्रकारकज्ञानत्वानियमस्य न व्यभिचार इति भावः। ननु व्याप्तेाप्यतावच्छेदकत्वे प्रात्माश्रयः इत्यतबाह, 'तथाहौति, 'प्रत्येकवृत्तिः' प्रात्येकमात्रवृत्तिः, 'सकलधूमादौति सकलधूमालोकादिनिष्ठेत्यर्थः । ननु यत्र यत्र वहिव्याप्यस्तत्र वहिरिति प्रतौतिरेव मानमित्यत आह, 'यत्रेति, 'शाब्दव्याप्यत्वबुद्धौ चेति, 'चशब्द दुवार्थे, शाब्दवहिव्याप्यवानयमिति बुद्धवाविवेत्यर्थः । मनु प्रत्येकवृत्तिव्याप्तिज्ञानाभावदशायामपि तादृशप्रतीत्युत्पत्तेने तस्थाः प्रत्येकवृत्तिव्याण्याश्रयत्वं विषय इत्यत आह, 'प्रत्येकेति, तवापौतिशेषः, प्रत्येकव्याप्तेर्महाव्याप्यवच्छेदकत्वादिति भावः। इदमापाततः यत्र यत्र धूमस्तत्र वहिरित्यस्य धूमत्वावच्छिन्त्रव्याप्तिविषयकत्ववत् यत्र यत्र वहिव्याप्यस्तत्र वझिरित्यस्थापि व्याप्यत्वावच्छिन्त्रव्याप्तिविषयताकत्वस्य सर्वानुभवसिद्धृत्वात्, न होतस्य धूमादिसमानाधिकरणभावाप्रतियोगित्वादिरूपव्याप्यत्वं विषय इति कचित् प्रत्येति। वस्तु