________________
परामर्शः।
BEE
यात्यवच्छेदिका आश्रयभेदेनावच्छेदकभेदेन च व्याप्तिभेदादिति चेत् ।न। सकलधूमादित्तिव्याप्ती मानाभावात् यत्र वहिव्याप्यस्तच वहिरिति व्याप्तिबुद्धौ
रिति शेषः, 'विशेषदर्शनत्वेनेति व्यावर्त्तकधर्मदर्शनविधया विपरीतज्ञानविरोधिदर्शनत्वेनेत्यर्थः, ‘प्रत्यक्षसहकारित्वात्' प्रत्यक्षोपयोगित्वात्, न तु तदन्यान्यत्वज्ञानत्वेन कारणत्वमिति भावः। तदन्यान्यत्वज्ञानमिति पक्षे धूमालोकान्यान्यत्वप्रकारक-धमालोकान्यान्यवत्ताज्ञानमित्यर्थः, 'तत्रेति अयमालोको धूमो वेत्यादिसंशयपरामस्थलइत्यर्थः, 'व्याप्यताज्ञानोपक्षोणमिति पक्षे वहिव्याप्यत्वप्रकारक-वकिव्याप्यवत्ताप्रत्यक्षोपयुक्तमित्यर्थः, 'न विति, व्याप्यतावच्छेदकप्रकारकव्याप्तिपक्षधर्मताज्ञानस्यैव भवन्मतेऽनुमितिहेतुत्वात् अन्यतरत्वस्य च गौरवादिना व्याप्यतानवच्छेदकत्वादिति भावः। इदमुपलक्षणं संशयादिसामय्याः सर्वत्रानावश्यकत्वेन यत्रतरकारणभावात् संशयाघभावः तत्र धमालोकान्यतरवत्ताज्ञानमपि नावश्यकमिति मन्तव्यं । अस्तु वा गुरुरपि धर्मो व्याप्यतावच्छेदकः अस्तु वा उनस्थले धूमालोकान्यान्यवत्ताज्ञानमावश्यकं तथापि शुद्धव्याप्तिप्रकारकशाब्दज्ञानस्थले व्यभिचारात्र व्याप्यतावच्छेदकप्रकारकव्याप्यादिज्ञानस्यैव हेततानियम इत्याह, 'किश्चेति, 'भाब्दज्ञाने' शाब्दज्ञानजन्यानुमिती, 'व्याप्यत्वज्ञानं कारणमिति पचतावच्छेदकावच्छिन्नपचविषयतानिरूपित-व्यायवावच्छिवविषयतामालिज्ञानमेव कारणमित्यर्थः,