________________
BES
तत्वचिन्तामगै णमित्यन्धवापि तथा। अथ वहिव्याप्यत्वमपि वह्निव्याप्यतावच्छेदकं तथाहि वहिनिरूपिता धूमादिप्रत्येकतिरेव व्याप्तिव्याप्तित्वेन सकलधूमादित्ति
हेतुनेत्यर्थः, शेषं पूर्ववदित्याहुः । तन्न । धूमालोकान्यान्यत्वस्य धूमत्वाद्यतिरिक्रत्वे भिन्नधर्मिकतया धूमप्रागभाववदवैयर्थात् धूमत्वादिरूपत्वेऽपि च धूमत्वत्वादेरप्रवेशेन वैयर्थविरहादिति द्रष्टव्यं ।
न भवत्येव तत्र तेन हेतुना वहिव्याप्यत्वानुमितिः किन्तु प्रत्यक्षतएव तत्र व्याप्तिमह्यते इति समाधत्ते, 'प्रत्यचं हौति, 'विशेषदर्शनादिति, एतच्च मंशयोत्तरव्याप्तिप्रत्यक्षाभिप्रायेण, 'विशेषण-विशेष्यसम्बन्धेति, एतच्च सम्बन्धांश लौकिकप्रत्यक्षाभिप्रायेण, यथार्थप्रत्यक्ष प्रति विशेषण-विशेष्यसम्बन्धस्य गुणतया तत्सम्पादनाय इदमित्यपि कश्चित् । 'विशेषण-विशेष्येन्द्रियेति, विशेषणस्य ज्ञानसत्त्वेऽपि पुनरिन्द्रियसन्त्रिकर्षाभिधानं तदंशे लौकिकप्रत्यक्षाभिप्रायेण, 'प्रत्यक्षमत्त्वादिति प्रत्यक्षसम्भवादित्यर्थः, इदमुपलक्षणं व्यर्थविशेषणतया तद्धर्मावच्छिन्नघटितव्यापकमामानाधिकरण्यरूपव्याप्नेविरहेऽपि तद्भमेण माध्याभाववदवृत्तित्वरूपव्याप्तिज्ञानेन वा अनुमितेरपि सम्भवाञ्च, न हि गुरुनय व न्यायनयेऽपि व्याप्यतावच्छेदकप्रकारकज्ञानमेव कारणं अन्यथाख्यात्यनभ्युपगमो वेति ध्येव। 'न चैवमिति, ‘एवं' गुरुतयानवच्छेदकत्वे, 'प्रत्यक्षेऽपौति, गुरुतया विषयितया ज्ञाननिष्ठप्रत्यक्षकारणतावच्छेदकलासम्भवादिति भावः । 'गरोरपौति, तस्य बुद्धे