SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ परामझे। अन्वय-व्यतिरेकाभ्यां गुरोरपि तस्य विशेषदर्शनत्वेन प्रत्यक्षसहकारित्वात् तस्मात्तदन्यान्यत्वज्ञानं तच व्याप्यताजानापक्षौणं न तु साक्षादनुमितिहेतुरिति, किन वहिव्याप्यवानयमिति शाब्दजाने व्याप्यत्वज्ञानं कार 'व्यायज्ञानात्' व्याप्यस्य पक्षधर्मताज्ञानात्, 'अतिप्रसङ्गादिति वतिव्याप्योधूमः द्रव्यवान् पर्वत इत्यादिज्ञानादपि भवन्मतेऽनुमितिप्रसङ्गादित्यर्थः, 'व्याप्यतावच्छेदकप्रकारकज्ञानादिति व्याप्तिग्रहविशेध्यतावच्छेदकौभूतो यो व्याप्यतावच्छेदकधर्मस्तत्प्रकारकपक्षधर्मताज्ञानादित्यर्थः । न चैवमिति, ‘एवं' धूमालोकान्यान्यत्वस्य व्याप्यतावच्छेदकत्वाभावे, धूमत्वालोकवादिरूपेण व्याप्तिज्ञानविरहदशायामिति शेषः, 'तदन्यान्यत्वादिति धर्मिपरो निर्देशः तादात्म्यसम्बन्धेन धूमालोकान्यतरेण हेतुनेत्यर्थः, 'नानुमेयं नानुमातुं शक्यं, 'व्यर्थविशेषणवादिति व्यर्थविशेषणतया तस्य व्याप्यतावच्छेदकला भावेन तद्धविच्छिन्नस्य व्याप्यघटकवादित्यर्थः, तद्धर्मावच्छिन्नस्य व्याप्तिघटकत्वे तद्धर्मस्य व्याप्यतावच्छेदकत्वस्याप्यावश्यकत्वात् यद्धर्मावच्छिन्नसमानाधिकरणभावप्रतियोगितानवच्छेदकं माध्यतावच्छेदक तस्यैव व्याप्यतावच्छेदकत्वात् इति भावः । __ केचित्तु 'न चैवमिति, ‘एवं' व्यर्थविशेषणत्वस्य व्याप्यतावच्छेदकताविघटकत्वे, धूमवादिना व्याप्तिज्ञानविरहदशायामिति शेषः, 'तदन्यान्यत्वादिति विशेषणताविशेषसम्बन्धेन धूमालोकान्यान्यत्वेन 63
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy