________________
gee
चिन्ताम
स्याभावात् स्वत एव तस्य विलक्षणत्वात् इति चेत् । न । व्यक्तेरेव तव प्रकारत्वात्, न हि गौर्गेत्वमिति ज्ञानयो
वघटितविशेषस्येत्यर्थः, 'दर्शनेन' विशेष्यतावच्छेदकतया भानेन, 'तादृशभ्भ्रमेति, सामान्यधर्मावच्छिनविशेष्यक तयावर्त्तकधर्मवत्तानिश्चयस्य सामान्यघटितविशेषधर्मावच्छिन्न विशेष्यक - तनिश्चयं प्रत्यपि विरोधित्वात् । न च तथापि वह्निव्याप्यः पर्वतवान्नेति भ्रमे बाधकाभावः तत्र धूमत्वस्य विशेष्यतावच्छेदकस्याप्रवेशादिति वाच्यं । तादृशभ्भ्रमसत्त्वेऽनुमितेरिष्टत्वात् वह्निव्याप्योधूमः पर्व्वतवानिति नि
सत्वे वह्निव्याप्यः पर्व्वतवान्नेति भ्रमेऽप्यनुमिते स्त्वयाप्यभ्युपगमात्, एवं यत्र प्रथमं वह्निव्याप्योधूमः पर्व्वतवान्नेति भ्रमः ततो धूमः पर्व्वतवानिति निचयस्तचाप्यनुमितिरिष्टैवेति भावः । पूर्वं 'यत्र होत्यादिना सामान्यधर्मावच्छिनविशेष्यकतयावर्त्तकधर्मदर्शनस्य मामान्यघटित विशेषधर्मावच्छिन्नविशेष्यकतत्संशयं प्रत्यपि विरोधित्व - मुकं अत्र तु तादृशनिश्चयं प्रतीत्यतो न पौनरुभ्यं । 'अन्यथेति यदि सामान्यधर्मावच्छिन्नविशेष्यक-तद्द्यावर्त्तक धर्मदर्शनस्य न सामान्यघटितविशेषधर्मावच्छिन्न विशेष्यक-तनिश्चयप्रतिबन्धकत्वं तदेत्यर्थः, 'निश्चयसामय्या' विशेष्यतावच्छेदकप्रकारकनिश्चयादिरूप विशिष्टपरामर्शसामग्र्यां, ‘भ्रमानन्तरमिति पाठः धूमो न पर्व्वतवानिति धूमत्वधर्मितावच्छेदककभ्रमानन्तरमित्यर्थः, 'विशिष्टपरामर्श एवेति (९),
(१) विशिष्ट परामर्श एवेत्यच परामर्श एवेति पाठः बस्मतादर्शपुखकेषु वर्त्ततइति ।