________________
परामर्शः।
मर्श तादृशस्य प्रतिबन्धकत्वस्वीकराच्च। अथ गोत्वं मधुरत्वावान्तरजातिवी लिङ्गं न स्यात् तहतधर्मान्तर
तावच्छेदकावच्छिन्नपक्षवत इत्यर्थः, 'व्याप्यभेदज्ञानमिति साध्यव्याप्यहेतौ भेदज्ञानमित्यर्थः, 'व्यायाभेदज्ञानमिति माध्यव्याप्यत्वावछिन्ने पक्षतावच्छेदकावच्छिन्नवतोऽभेदस्य पक्षतावच्छेदकावच्छिन्नवत्त्वरूपस्य ज्ञानं माध्यव्याप्यत्वावच्छिन्नविषयतानिरूपितपक्षतावच्छेदकावच्छिन्नवद्विषयताशालिनिश्चयत्वावच्छिन्नमिति यावत्, यथाश्रुते सिद्धसाधनापत्तेः, एवमग्रेऽपि, ‘पक्षधर्मताज्ञाने' पक्षप्रकारकनिश्चये, 'विशेषदर्शनात्' व्यावर्त्तकधर्मदर्शनात्, पक्षस्यैव पक्षतावच्छेदकावच्छिन्नवझेदव्यावर्त्तकत्वादितिभावः, 'धूमे व्यायभेदज्ञान' धूमत्वावच्छिन्ने वहिव्याप्यत्वावच्छिन्नविशेष्यकपक्षवतेंदज्ञानमिति यावत्, 'अत इति, व्याप्यभेदज्ञान' माध्यव्याप्यहेतुत्वावच्छिन्ने पक्षवझेदज्ञानं, स्वाभावेतरसकलकारणमत्त्वे यत्मत्वे कार्यानुत्पादस्तस्यैव प्रतिबन्धकत्वादिति भावः । ननु धूमत्वावच्छिन्नविशेष्यक-पक्षप्रकारकनिश्चयस्य धूभवावच्छिन्नविशेष्यक-पक्षवद्भेदप्रकारकनिश्चयं प्रत्येव विरोधितया तत्सत्त्वेऽपि वहिव्याप्यधूमत्वावच्छिन्नविशेष्यक-पक्षवझेदप्रकारकभ्रमे बाधकाभाव इति भ्रमणशरते, 'न चेति, 'पक्षधर्मताग्रहे' पक्षप्रकारकनिश्चये, विद्यमानेऽपौति शेषः, 'यमिति वहिव्याप्यधूमव्यक्तिरिय पर्वतीया नेति योजना, 'भ्राम्यतः' . भ्रमे बाधकविरहवतः, 'अनुमित्यापत्तिः तदनन्तरमनुमित्यापत्तिः । भ्रमं निराकृत्य समाधने, 'धूमत्वस्येति, घटितत्वं षष्ठ्यर्थः, धूम