________________
तत्त्वचिन्तामो
ज्ञानस्याप्रतिबन्धकत्वात् भेदग्रहो न प्रतिबन्धक इति वाच्यम्। अभेदज्ञानस्याजनकत्वात् त्वयापि लिङ्गपरा
वदा, 'प्रभावो वा' प्रभावत्ववद्या, 'प्रमेयं प्रमेयत्वव्याप्यवत्, ‘भाववाभावत्वयोरिति धर्मपरो निर्देशः भावत्वत्वाभावत्वत्वरूपव्याप्यतावच्छेदकप्रकारकव्याप्ति-पक्षधर्मातानिश्चयाभावादित्यर्थः, 'अनुमान' अनुमितिः, ननु तच भावाभावान्यतरत्वप्रकारेण भावाभावान्यतरत्वनिष्ठप्रमेयत्वव्याप्तिज्ञानात् तेन रूपेण तस्य पक्षधर्माताज्ञानाच्चानुमितिः फलबलेन तादृशज्ञानकल्पनादित्यत आह, 'तदन्यान्यवेति भावभिन्नत्वे मति अभावभिन्नो यस्तदन्यत्वरूपस्य भावाभावान्यतरत्वस्येत्यर्थः, 'लिङ्गवाभावादिति, अप्रसिद्धेरिति भावः । 'भावखाभावत्वेति भावत्वाभावत्वान्यतरधर्मरूपेण भावत्वाभावत्वान्यतरधर्मनिष्ठव्याप्ति-पक्षधर्मताज्ञानादेव तचानुमित्युत्पादात् फलवलेन तादृशज्ञानकल्पनादित्यर्थः, ‘एवमिति, 'लिङ्ग लिङ्गतावच्छेदकं, यत्रायं धमवान् वा श्रालोकवान् वा उभयथापि वझिवाप्यवानिति ज्ञानानन्तरमनुमितिस्तत्रापि धूमालोकान्यतरत्वरूपेण धूमालोकान्यतरनिष्टव्याप्ति-पक्षधर्मतानिश्चयादेवानुमितिः फलवलेन तादृश्यजानकल्पनादित्यर्थः, 'यड्यतिरेकज्ञानमिति यद्धर्मावच्छिन्नविशेष्यकयद्धर्मावच्छिन्नवद्भेदज्ञानत्वावच्छिन्नमित्यर्थः, 'तनिश्चयसाध्यमिति नद्धर्मावच्छिन्नविषयतानिरूपिततद्धर्मावच्छिवविषयताशालिनिश्चयबावच्छित्रकारणताप्रतियोगिककार्य्यतावदित्यर्थः 'पक्षधर्मस्येति पच