________________
परामर्शः।
एनयू
मितिहेतुः परामर्शहेतुतया तस्यावश्यकत्वात् । अतएवासनिकृष्टधूमज्ञानादप्यनुमितिः। न चैवं गौरवं, तदा विशिष्टज्ञानानुपस्थितेः। न च जनकज्ञानाविरोधिनो
रकर्मिज्ञानस्य संशयहेततया तस्य प्रथममावश्यकत्वादिति भावः । 'पक्षधर्मताज्ञाने' धूमवरूपेण पक्षप्रकारकज्ञाने, 'अनुमितिर्भवत्येबेति, ‘एवकारोभिन्नक्रमे अनुमितिरेव भवति न तु संशयः अनुमितिमामय्या बलवत्त्वादित्यर्थः । न च धूमवरूपेण पक्षप्रकारकज्ञानदशायामेव संशयसम्भव इति वाच्यं । प्रतिबन्धकाभावस्य कायंसहभावेन हेतुतया तदानौं संशयासम्भवादिति भावः, इति व्याचक्रुः। तदसत्। धूमवरूपेण पक्षप्रकारकनिश्चयात् पूर्व संशयसम्भवात् ।
मिश्रास्तु भवतु संशयः भवतु च तन्निरामार्थ(१) क्वचिदिभिष्टनिश्चयोऽपेक्षितः तथापि धूमवरूपेण व्याप्तिस्मरणे तेन रूपेण पक्षधर्मताज्ञाने चानुमितिर्भवत्येव यत्र न संशयस्तत्रैव तादृशज्ञानदयादनुमित्युत्पत्तेः तावतैव सिद्धं नः समौहितमित्याह 'वस्तुतस्वितीत्याहुः ।
'नन्विति(र, इदमिति पक्ष:(२) पूरणीयः, 'भावो वा' भावत्व
(१) संशयानन्तरमनुमितिनिरासार्थमित्यर्थः । (२) मन्वित्यादिना मैयायिकशक्षा । (२) नौलत्वेन प्रतीयमानस्य तमसः पक्षवमिति भावः ।