________________
चिन्तामय
तचानुमितिसद्भावादेव अन्यथा निश्चयसामभ्यां सत्यां भ्रमानन्तरं परामर्श एव कुतो न भवति । अस्तु वा व्याप्यतया पक्षधर्म्मतया चावगतस्य भेदाग्रह एवानु
858
वच्छेदकाश्रयत्वादित्यर्थः । तच तादृशसंशयप्रतिबन्धकतावच्छेदकवत्त्वमेवासिद्धमित्यभिप्रायेणाशङ्कते, 'न चेति, 'सामान्य निश्चयस्येति पूर्व्ववत् धमसामान्ये संशयो मा भूत् तत्सचे धूमत्वावच्छिनविशेव्यकसंशय एव न जायते स धूमत्वावच्छिन्न विशेष्यकसंशयाभावस्यैव प्रयोजक इति यावत्, 'एवकारात् वहिव्याप्यधूमत्वावच्छिन्नविशेव्यकसंशयाभावस्य व्यवच्छेदः, 'विशेषसंशयखेत्यादि व्याख्यातार्थकं, “धूमविशेषे संशयनिरासार्थमिति पृथक् व्याप्तिनिश्चयो धूमविशेषे संशयनिरासार्थमवश्यं वाच्य इति योजना, 'पृथक् व्याप्तिनिश्चयः' वनिव्याप्यो धूमः पर्व्वतवानिति निश्चयः, 'धूमविशेषे संशयनिरासार्थं वव्यिाप्यधूमत्वावच्छिन्नविशेष्यक संशयाभावप्रयोजक, प्रधानकर्मतया विकारकर्मतया वा न प्रथमा "दुहादेर्गेणकं कर्मेत्याद्यनुशासनात्, 'यत्र हौत्यादिग्रन्थोऽपि पूर्व्ववत् । ननु तथापि यच प्रथमं वव्याप्यो धूमः पर्व्वतवान्न बेति संशयः ततः पर्व्वतो धूमवानिति निखयः तत्रानुमित्यापत्तिर्दुर्व्वारा संशयस्यैव व्याप्यतावच्छेदकप्रकारकव्याप्तिनिश्चयत्वादित्यख रसादिष्टापत्तिमाह, 'वस्तुतस्थिति, 'स्मरणे' निश्चये ।
केचित्तु श्रनुमितिसामय्या बलवत्त्वात् न तादृशसंशयसम्भवइत्याह, 'वस्तुस्थिति, 'धूमत्व पुरस्कारेणेति, धर्मितावच्छेदकप्रका