SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ परामर्शः। ४८३ व्याप्तिस्मरणपक्षधर्मताग्रहे इयं धूमव्यक्तिर्वहिव्याप्या नेति भ्राम्यतोऽनुमित्यापत्तिरता विशिष्टज्ञानं हेतुरिति वाच्यं । धूमत्वस्य विशेषस्य दर्शनेन तादृशम्रमानुत्पत्तोः वर्तकधर्मश्च तदत्यन्ताभावः, तदत्यन्ताभावव्याप्यः, तदत्यन्ताभावो यद्धविच्छेदेन ग्टहीतः स धर्मः, तद्वदन्योन्याभावः, तद्वदन्योन्याभावव्यायः, तद्वदन्योन्याभावो यद्धविच्छेदेन ग्टहीतः स धर्मः, तादात्म्यसम्बन्धेन तदत्ताबुद्धौ त दादिदर्शनमपि बोध्यं । न च तथापि वहिव्यायः पर्वतवान्न वेति मंशये न किमपि बाधकं तत्र धर्मितावच्छेदके धमत्वाप्रवेशादिति वाच्यं। तादृशसंशयसत्त्वेऽनुमितेरिष्टत्वात् वहिव्याप्यो धमः पर्वतवानिति विशिष्टनिर्णयदशायां नादृशसंशयस वेष्यनुमितेस्त्वयाप्यभ्युपगमादिति भावः। वस्तुतस्तु 'अन्यथेत्यादिग्रन्थोऽन्यथैव योजनीयः, तथाहि 'अन्यथा' धूमलावच्छिन्नविशेष्यक-पतवत्तानिश्चयो यदि व्यावर्त्तकधर्मदर्शनत्वेनापि न वहिव्याप्यधमत्वावच्छिन्नविशेष्यक-पर्वतसंशयाभावप्रयोजकः तदा, 'परामर्शीऽपौति वहिव्याप्यो धूमः पर्वतवानिति विशिष्टनिश्चयोऽपौत्यर्थः, 'कुतो न स्थादिति वहिव्याप्यो धूमः पर्वतवान्न वेति संशयाभावाप्रयोजकः कुतो न स्थादित्यर्थः । अथ विशिष्टनिश्चयस्य तादृशसंशयनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकाश्रयत्वात् न तादृशसंशयाभावाप्रयोजकत्वमिति चेत्, तर्हि धूमः पर्वतवानिति निश्चयस्यापि तदाश्रयत्वात् तस्यापि न तादृशसंशयाभावाप्रयोजकत्वमित्याह, 'संशयेन प्रतिबन्धादिति संशयनिरूपितप्रतिबन्धकता
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy