________________
परामर्शः ।
भेदज्ञानमनुमिति प्रतिबन्धकम् श्रतेा व्याप्याभेदज्ञानं तहेतुः सिध्यतीति चेत् । न । धूमत्वपुरस्कारेण व्याप्तिस्मरणे पक्षधर्म्मताज्ञाने च सति विशेषदर्शनात्र धूमे
१
विद्यमानेऽपीत्यर्थ: (१), 'धूमत्वज्ञानस्य' धूमत्वरूपेण धूमे पर्व्वतवत्तानिश्चयस्य, ‘विशेषदर्शनत्वेन' व्यावर्त्तकधर्मदर्शनत्वेन, 'संशयाभावात्' संशयस्यासम्भवात्, ‘अन्यथेति व्यावर्त्तकधर्मदर्शने सत्यपि यदि तत्र संशयस्तदेत्यर्थः, संशयानन्तरमिति शेषः, 'परामर्शोऽपि कुतो न स्वादिति तव वहिव्याप्यो धूमः पर्व्वतवानिति विशिष्टनिश्चयस्यापत्तेः यैव ममानुमितिसामग्रौ तस्या एव तव परामर्श सामग्री - त्वादित्यर्थः, तस्मात्तत्र संशयो न जायते किन्तु विशिष्टनिश्चय एव जायते ततोऽनुमितिरिति त्वयापि स्वीकरणीयमिति भावः । ननु मम विशिष्टपरामर्शस्यापि श्रापत्तिर्नास्तीति संशयस्य प्रतिबन्धकत्वादित्याशङ्कते, ‘संशयेन प्रतिबन्धादिति, न विशिष्टपरामर्श प्रापत्तिरिति शेषः । ' तुल्यमिति ममाप्यनुमितिं प्रति संशयः प्रतिबन्धकः सुवच दूत्यर्थः, एतच्चाभ्युपगमवादः तादृशसंशयस्यानुमितिं प्रत्यतिरिक्तप्रतिबध्य-प्रतिबन्धकत्वकल्पने गौरवात् । वस्तुतस्तु विशेषदर्शनसत्त्वात् संशय एव न जायत इत्यचैव निर्भरो बोध्यः, श्रत एव तथैवाशङ्कते, 'न चेति, 'सामान्यनिश्चयस्येति धूमत्वरूपसामान्यधर्म
(१) संशयं प्रति धर्म्मित । वच्छेदकप्रकारक धर्म्मिज्ञानं कारणमित्यभिप्रवाह, धर्म्मिति ।
61