________________
8.
तत्त्वचिन्तामो
धर्मवत्वस्य तब लिङ्गत्वात्, एवं धूमालाकान्यतरत्वमपि लिङ्गम् । अथ यद्यतिरेकज्ञानं यदुत्पत्तिप्रतिबन्धकं तत्तनिश्चयसाध्यं तथाच पक्षधर्मस्य व्याप्य
तमे धूमत्वादिमत्तास्मरणस्य च सत्त्वात्, यदा तु न तादृशस्मरणं तदा असंसर्गाग्रहादेवेति भावः। 'न च तन्मत इति, वहिव्याप्तिव्याप्यधूमत्ववान् स धूमः वहिव्याप्तिव्याप्यं धूमत्वं नझूमे इति विशिछस्मरणभावात् तद्भूमस्यामन्त्रिकष्टत्वेन प्रात्यक्षिकतादृशविशिष्टपरामर्मस्थासम्भवात्, तथाच भवन्मत एव तादृशविशिष्टपरामर्शविरहदशायां तादृशविशिष्टव्यवहारो न स्यादिति भावः । काण्यतावछेदकप्रकारकव्याप्तिज्ञानाभावात् वहिव्याप्यवानयमिति शाब्दादिजानजन्यानुमितौ स्वमते व्यभिचारमुद्धरति, 'श्रत एवेति यत एवातौन्द्रियादौ व्यभिचारात् विशिष्टज्ञानं न कारणं अपि तु व्याप्यतावच्छेदकयद्धविच्छे देन व्याप्तिग्रहस्तत्प्रकारकपक्षधर्मताज्ञानं कारणं अत एवेत्यर्थः, वहिव्याप्यवानयमिति शाब्दज्ञानोत्तरमिति शेषः, 'व्याप्तिज्ञानवत इति व्याप्तिस्मरणवत इत्यर्थः, अत्र वहिव्यायवस्यैव वहिव्याप्यतावच्छेदकस्य प्रकारत्वादिति भावः । पर्वतीयधूमइति धूमवरूपेण धूमे पर्वतवच्चे ज्ञाते इत्यर्थः, वहिव्यायः वजिव्याप्यो धूमः, 'अयं न वा' पर्वतवान्न वा, अस्मन्मते च वहिव्याप्यो धमः पर्वतवान् इति विशिष्टनिश्चयाभावाच तदानीमनुमितिरिति भावः । ‘स्मरणे विद्यमाने' धर्मितावच्छेदकप्रकारकर्मिमारणे