________________
89
तत्त्वचिन्तामणौ
शयः तच्च सामान्ये विशेष वेति। वस्तुतस्तु धूमत्वपूरकारेण व्याप्तिस्मरणे पक्षधर्माताज्ञाने चानुमितिभवत्येव । ननु भावोऽभावो वा उभयथापि प्रमेय
योौकिकसन्निकर्षसत्त्वे एव तयोः प्रत्यक्षरूपत्वादिति भावः । निद्रादेः' निद्रादिजन्यपदार्थापस्थितेः, न प्रमाणन्तरत्वं न विशिष्टप्रत्यक्षमितेरसाधारणकारणत्वं, तथाच हेत्वभावादेव न व्यभिचार इति भाव इति सम्प्रदायविदः ।
सजवस्तु नन्वेतादृशनियमे निद्रादिजन्यपदार्थोपस्थितेरपि संशय-खप्रकरणत्वापत्तिरित्यत आह, 'संभयेति, 'न प्रामाणान्तरत्वं' न प्रमाणन्तरत्वप्रसङ्गः न मंशय-खप्रकरणत्वप्रसङ्ग इति यावत्, शेषं पूर्ववदित्याहुः। तदुभयमप्यसत् । 'संशय-स्वप्नी तु न प्रमे' इत्यभिधानस्यानुपयुक्तत्वापत्तेः निद्रादिजन्यपदार्थोपस्थितेर्न संशयस्वप्नासाधारणकारणवमित्यस्यैव वकुमुचितत्वात् तत्रये ज्ञानलक्षणमन्त्रिकर्षस्य प्रत्यक्षाजनकतया तयोविशिष्टप्रत्यक्षरूपत्वेऽपि निद्रादिजन्यपदार्थोपस्थितौ तदसाधारणकारणत्वासम्भवात् ।
वस्तुतस्तु प्रागुनसंशय-स्वप्नस्थले वहिरिन्द्रियलौकिकमन्त्रिकर्षे विनापि वाह्यार्थविषयकविशिष्टप्रत्यक्षजनने क्लप्तशक्तिकेन मनसा प्रकृतेऽपि तेन विना विशिष्टप्रत्यक्षं जनयितव्यं(१) केन वारणैयं
(१) विशिष्प्रत्यक्षजननमिति ख. ।