________________
परामर्शः ।
809
मा भूत् विशेषसंशयश्च विशेषनिश्चयनिवर्त्तनीय इति धूमविशेषे संशयनिरासार्थं पृथग्व्याप्तिनिश्चयेा वाच्यइति वाच्यं । यच हि ययावर्त्तकधर्मदर्शनं तच न तत्सं
यदि प्रत्यक्षजातोयप्रमाया लौकिकसन्निकर्षाद्यात्मकसामय्य समवहितं सत् विशिष्टपरामर्शरूपप्रमाजनकं स्यात्तदा प्रत्यचविजातीयतादृशप्रमाजनकं स्यात्सामग्रौ च उभयवादिसिद्धत्वेन विशेषणीया, तेनोपनयसन्निकर्षमादाय नासिद्धिः परनये उपनयस्य सन्निकर्षाभावादिति व्याचक्रुः । तदसत् । 'नियतव्यापाराभावेन प्रमायामकरणत्वादित्यग्रिमग्रन्थासङ्गतेः प्रमाकरणत्वस्यापाद्यत्वाभावात् । न च प्रत्यक्षविजातौयविशिष्टपरामर्श करणत्वमेवापादनीयं ( ९ ) व्याप्तावपि माध्ये करणत्वमेव निवेशनौयमिति वाच्यं । श्रनुमानादिविजातीयप्रमासामग्रौमादाय चचुःसंयोगादौ व्यापारे व्यभिचारापत्तेरिति दिक् ।
ननु प्रागुक्रसंशय-स्वप्नजनके निद्रादिजन्यपदार्थोपस्थितिरूपोपनयसन्निकर्षेऽयं नियमो व्यभिचारौ तत्र मनसो निद्रायास करणत्वेन तज्जन्यपदार्थेौपस्थितिरूपोपनयस्याकरणत्वादित्यत श्राह 'संशय - खप्नौ विति प्रागुक्तसंशय - स्वप्नौ त्वित्यर्थः, 'न प्रमे' न विशिष्टप्रत्यक्षरूपी, किन्तु स्मरणादिरूपधर्मिज्ञान - विशेषण ज्ञानरूपौ, विशेषण - विशेष्य
(१) तथाच प्रमाणान्तरतापत्तेरित्यस्य प्रत्यक्षविजातीयविशिष्टपरामरूपप्रमाकर तापत्तेरित्यर्थे वाच्य इति भावः ।