________________
१७८
तत्वचिन्तामो
संशयाभावात्, अन्यथा परामर्शोऽपि कुतो न स्यात् संशयेन प्रतिबन्धादिति चेत्तुल्यं। नच सामान्यनिश्चयस्य सामान्यसंशयनिवर्तकत्वाबूमसामान्ये एव संशया
व्यभिचारवारणाय सामान्यतोज्ञानत्वादिकमपहाय प्रत्यक्षमितित्वेन प्रवेशः, विपरौतज्ञानोत्तरप्रत्यक्ष प्रति विशेषदर्शनादेन कारणलं अपि तु विपरीतज्ञाननिवर्तकतया कथञ्चिदुपयोगित्वमेव तस्येति न व्यभिचार इति सर्वं चतुरखें। __ केचित्तु 'व्याप्तिस्मरणादेः प्रकृतव्याप्तिस्मरणादेः, 'प्रमाणाम्नरतापतेरिति प्रत्यक्षविजातीयविशिष्टपरामर्शरूपप्रमाकारणत्वापत्तरित्यर्थः, 'तदेव होत्यादि, 'हि' यस्मात्, यदसाधारणं मनोरूपं सहकार्यामाद्य वहिर्गोचरां प्रमां जनयति तदेव प्रमाणान्तरं तत्म प्रमाणान्तरं, इति योजना, यदित्यसाधारणविशेषणं, 'प्रसधारणं' यज्जातीयप्रमामामय्यसमवहितं, मनोरूपं सहकार्यामाद्येति स्वरूपकथनं, 'वहिर्गाचरां प्रमां जनयति' यदिशेष्यक-यत्प्रकारकप्रमा जनयति, 'प्रमाणान्तरं' तद्विजातीयतविशेष्यक-तत्प्रकारकप्रमाकरणं, तथाच यद्यन्नातीयप्रमामामय्यसमवहितं सत् यदिशेयक-यत्प्रकारकप्रमाजनकं भवति तत्तद्विजातीयतविशेष्यक-तत्प्रकारकप्रमाजनकं भवति यथा चचुरादिकमनुमानादिजातीयप्रमामामय्यसमवहितं सत् घटादिविशेष्यकघटत्वादिप्रकारकप्रमाजनकं भवति तदनुमानादिविजातीयतादृशप्रमाजमकं भवत्येवेति निष्कृष्टं व्याप्तिशरीरं, प्रकृते व्याप्तिस्मरणमपि