________________
परामशः।
800
पर्वतीयधूमे धूमत्वेन जाते वह्निव्याप्योऽयं न वेति संशयेऽप्यनुमितिः स्यादिति चेत्। न। धूभों वहिव्याप्यइति स्मरणे विद्यमाने धूमत्वज्ञानस्य विशेषदर्शनम्वेन
वाच्यं । तन्मताभ्युपगमेऽसाधारणकारणतार्या मत्यन्तदले तादाम्यसम्बन्धानवच्छिन्नत्ववन्महत्त्वावृत्तित्वेनापि कारणताया विशेषणैयत्वात् । न च तथापि उद्भूतरूपे व्यभिचारः तस्य मानसेतरद्रव्यलौकिकप्रत्यक्षत्वावच्छिन्ने उद्भूतरूपवट्रव्यदृत्तित्वविशिष्टलौकिकविषयतासम्बन्धेन(१) प्रत्यक्षत्वावच्छिन्ने वा जनकतया निरुतासहकारित्ववत्त्वादिति वाच्यं। तस्य लाघवेन द्रव्यलौकिकचाक्षुषत्वाद्यवच्छिन प्रत्येव जनकत्वात् मौमांसकेन पूर्वपक्षिणा वायोरपि प्रत्यक्षत्वाभ्युपगमात् जरनैयायिकनये तु महत्वावृत्तित्ववद्रूपावृत्तित्वस्थापि(१) मत्यमदले कारणतायां प्रवेशनीयत्वात् । मनःसंयुक्तसमवायादिलक्षणस्य सुखादिसत्रिकर्षस्थापि मनोऽन्यप्रमाणन्तरामहकारित्वात् तत्र व्यभिचारवारणाय वहिष्ठं अर्थविशेषणं, तच्च मानसलौकिकप्रत्यक्षाविषयत्वं, परनये ज्ञानलक्षणाया प्रमन्त्रिकर्षतया सुखादिप्रत्यक्षे वहिरर्थस्य कदाचिदप्यमानान व्यभिचारतादवस्थ्य, परामादेरभावज्ञानत्वाद्यवच्छिन्नखवृत्तिकारणताश्रयस्य व्याप्तिज्ञानादेरेव सहकारितया तत्र
(१) मूर्त्तत्वविशिष्टलौकिकविषयतासम्बन्धेनेति ग० । (२) उद्भूतरूपावृत्तित्वस्यापीति ख० ।