________________
यातिवादः।
अभावौषविशेषणतांविशेषेण माथाभावाधिकरणत्वं प्रभावमाध्यकस्थले - यथायथं समवायादिसम्बन्धेन माध्याभावाधिकरणवमुपादेयं माध्यभेदेन कार्य-कारणभावभेदात् । न च तथापि घटान्योन्याभाववान् पटत्वादित्यत्रान्योन्याभावसाध्यकस्थले घटत्वादिरूपे माध्याभावे न माध्यप्रतियोगित्वं न वा समवायादिसम्बन्धस्तदवच्छेदकः तादात्मस्यैव तदवच्छेदकत्वादित्यव्याप्तिस्तदवस्थेति वाच्यम् । अत्यन्ताभावाभावस्य प्रतियोगिरूपत्वेन घटभेदस्य घटभेदात्यन्ताभावत्वावच्छिन्नाभावरूपतया घटभेदात्यन्ताभावरूपस्य घटभेदप्रतियोगितावच्छेदकीभूतघटत्वस्थापि समवायसम्बन्धेन घटभेदप्रतियोगित्वात् । न चान्यत्रात्यन्ताभावाभावस्य प्रतियोगिरूपत्वेऽपि घटादिभेदात्यन्ताभावाभावो न घटादिभेदस्वरूपः किन्तु तत्प्रतियोगितावच्छेदकौमृतघटत्वात्यन्ताभावस्वरूप 'एवेति सिद्धान्तइति वाचं। यथा हि घटत्वावच्छिन्नघटवत्ताग्रहे घंटात्यनाभावायहात् घटात्यन्ताभावाभावव्यवहाराच्च घटात्यन्ताभावाभावोघटखरूपः तथा घटभेदवत्ताग्रहे घटभेदात्यन्ताभावायहात् घटभेदात्यन्ताभावाभावयवहाराच्च घटभेद एव तदत्यन्ताभावत्वावच्छिन्नप्रतियोगिताकाभाव इति तमिद्धान्तः(१) न युक्किमहः । विनिगमकाभावेनापि घटत्वत्वावच्छिन्नप्रतियोगिताकात्यन्ताभाववद्दटभेदस्थापि घटभेदात्यन्ताभावाभावत्वमिद्धेरप्रत्यूहत्वाच्च । अत एव तादृ
(१) घटान्योन्याभावात्यन्ताभावाभावस्य घटत्वात्यन्ताभावखरूपत्वरूपसिद्धान्त इत्यर्थः ।